________________
पञ्चसूत्रोपनिषद्
११३ स्स्यादित्याह - नासौ परिवारस्य सन्तापको भवति, शुभप्रणिधानेन । निरन्तरं प्रशस्तभावनाशुभनिर्णयसुन्दरमनोरथरमणप्रवणत्वात्स्वार्थभावनाविरहितो वर्जितपरपीडापरिणामश्चासौ भवति । किञ्च परार्थतत्परतया कथन्नामापरेषां सौख्यसम्पत् स्यादित्येतदेवैष समीहते । न चासावहङ्कारकदर्थितो भवति । नाप्यदीर्घदृष्टिक्षुद्रविमर्शादिदोषदुष्टो भवति, दीर्घदृग्विभूषितत्वात्, गभीरोदाराशयालङ्कृतत्वाच्च । न चैष परिवारस्य पीडाकारी भवति, अपि तु गुणकृत् । दर्शयत्यसौ परिवारस्य संसारनिर्गुणस्वभावम् । प्रेरयत्येनं धर्मे । तदबोधे भावयत्यनुकम्पाम् । चिन्तयति कर्मवशवर्त्तितां सर्वजीवानाम् । भवति निर्व्याजवात्सल्यः परिवार प्रति । नापेक्षते कृतप्रतिकृतम् । न स्मारयति स्वकृतोपकृतिम् । परिहरति द्वेषोदयप्रसङ्गम् । अपि चोपशमयति कथञ्चिदुदीर्णं तेष्वसमाधिम् । इत्थञ्च तस्मिनादृतो भवेत् परिवारः । स्वयमपि तदनुरागेण विरज्येत संसारात् ।
किञ्चानुकम्पागोचरीकुर्वनपि परिवारं स्वयं ममकाररहितो भवेत् । एतदर्थं भवस्थितिमालोचयेत् । विभावयेदनन्तसंसरणावर्त्तम् । निभालयेदनित्यत्वमात्रनित्यताम् । चिन्तयेत्प्रत्येकजीवेन सह सञ्जातं मात्रादिप्रत्येकसम्बन्धम्, उक्तञ्च - संसाराम्बुनिधौ सत्त्वाः कर्मोर्मिपरिघट्टिताः । संयुज्यन्ते वियुज्यन्ते, तत्र कः कस्य बान्धवः-इति । तथा - अत्यायतेऽस्मिन् संसारे, भूयो जन्मनि जन्मनि । सत्त्वो नैवास्त्यसौ कश्चिद्, यो न बन्धुरनेकधा - इति । किञ्च ममत्वगोचरजीवो जनयत्यात्मनि सङ्क्लेशशतानि । उद्भावयति विरहे