________________
पञ्चसूत्रोपनिषद्
१११ वित्तस्य योग्य नियोजनमप्यावश्यकम् । तच्च चतुष्के भवति - दाने भोगे परिवारे सङ्ग्रहे च । ____न चात्र साधुधर्मपरिभावनायाः किमायातमिति वाच्यम्, (१) लाभोचितदानविरहे सर्वत्यागसत्त्वानुल्लासात्, अहिंसाप्रयोजकपरार्थकरणविकासानापत्तेः, स्वाथै कलाम्पट्य-प्रसक्तेः, धर्मं प्रति कृतज्ञभावानुदयात्, पूज्यपूजा-दुःखितदयादिप्रारम्भदशायोग्यगुणानधिगमाच्च । न ह्युक्तसत्त्वादिकमन्तरेण साधुधर्मयोग्यतामुपयाति जात्वात्मा । यत्किञ्चिदपि वित्तं धर्मदत्तमेवावाप्यते । तं प्रति कृतज्ञभावाभावे कुतः श्रामण्यार्हतेति ।
तत्र दानं द्विविधम् - (१) भक्तिदानम् (२) अनुकम्पादानम् । अत्राद्यं गुणपूजारूपत्वेन गुणसमर्थकम् । द्वितीयं दुःखिदयारूपत्वेनाऽऽत्मपरिणाममार्दवप्रयोजकतया गुणग्रहणयोग्यतां वितरति । लाभोचितदाने यतितव्यमेवेत्यत्र तात्पर्यम् ।
(२) एवं लाभोचितो भोगः स्वनिर्वाह आवश्यकः । तदभावे . कार्पण्यक्षुद्रताधनमूर्छादिदोषपोषयोगेन श्रामण्ययोग्यत्वनिराकृतेः । अनुचितव्ययवशादुल्बणभोगेन्द्रियलाम्पट्यादिप्रसक्तेश्च । किञ्चैवमृणित्वस्यापि प्रसङ्गः, अत उचित एव भोगो न्याय्यः ।
(३) तथा लाभोचितपरिवारेण भाव्यम् । तावानेव परिकरो धारयितव्यः, यावान्निर्वोढुं शक्येत । न ततोऽप्यधिककर्मकरादिपरिग्रहो विधातव्य इति भावः । एवं परिवारार्थमप्युचितव्ययेन भाव्यम् । न हि स्वार्थं मुक्तहस्तः परार्थे च कृपणः समाधि प्रयच्छति परिवाराय, नाप्यसावादेयतां व्रजति परिजनस्य । एवञ्च कदाचित् प्रविव्रजिषुरपि नानुस्रियतेऽनुज्ञायते वा