________________
११०
पञ्चसूत्रोपनिषद् विदधीत । न निरीक्षेतापि परस्त्रियम् । न सेवेतानर्थदण्डम् । हिंसादेश्चतुष्टयस्यापि दारुणफलत्वात् ।
तत्रानर्थदण्डश्चतुर्धा भवति - (१) आर्तरौद्रध्यानम् रागानुचिन्तनं रागपात्रवियोगजनितशोकपरिणतिरपि च दुर्ध्यानम् । (२) प्रमादाचरणम् । यथा घृतदुग्धादिभाजनानामसंवृततया स्थापनम्, भूतिकर्मादिकम्, व्यसनसप्तकसेवनम्, नाटकादिप्रेक्षणम्, कामचेष्टा, नद्यादिस्नानम्, मुखरता चेत्यादि । (३) पापोपदेशः । येनोक्तेन मिथ्यात्वहिंसादि पुष्येत्, विषयतृष्णा वृद्धिमाप्नुयात्, कषायोदीरणं स्यात्, कलहोदयो वा भवेत् । (४) अधिकरणप्रदानम् । यथा कलहोदीरणम्, हलमुशलादिवितरणम्, विषयतृष्णासञ्जीवनसदृशपुस्तकादिप्रदानम् ।
हिंसास्तेयपरदारदर्शनानर्थदण्डेभ्यो रक्षयित्वाऽऽत्मानं नियोज्य एष शुभप्रवृत्तौ । सा च जीवदयादानशीलतपोदेव गुरुभक्तिजिनवाणीश्रवणशास्त्राध्ययनतीर्थयात्रासामायिकपौषधप्रतिक्रमणपरमेष्ठिस्मरणादिरूपा । प्रवर्तितव्यं तस्यां प्रयत्नतः ।
(११) लाभोचितदानभोगादिः सूत्र : तहा लाहोचिअदाणे, लाहोचिअभोगे, लाहोचिअपरिवारे, लाहोचिअनिहिकरे सिआ ।
साधुधर्मपरिभावनार्थमहिंसादिगुण-तद्गोचरोपादेयबुद्धिजिनाज्ञाग्रहणचिन्तनपारतन्त्र्या-ऽकल्याणमित्रपरिहारलोकविरुद्धत्याग - कल्याणमित्रसेवनादिकं यथाऽऽवश्यकम्, तथा