________________
१०९
पञ्चसूत्रोपनिषद् तत्त्वकथा, महापुरुषचरित्रम्, सुकृतप्रशंसा, हितोपदेशः, साधर्मिकोपबृंहणा, धर्मविषण्णस्थिरीकरणम् । एतेष्वेवाक्षणिकस्य कुतो निन्दाविकथाद्यवकाशः । .
मितभाषा नाम प्रमाणोपेतोद्गारः । विचिन्त्य परिमितमेव वक्तव्यम्, यन्नेङ्गितेन निर्वहति, तदेव वक्तव्यम् । एवञ्च प्रायो मौनभावेन सुखेन परिह्रियतेऽसत्योच्चारः । विचिन्त्योच्चरणेनापि त्यज्यते कर्कशभाषणासम्बद्धवचःप्रभृतिः । प्रमाणातीत उच्चारस्तु निःसारं कुरुते चित्तम् । .
माता सरस्वती हि मानवजिह्वा । तत्सम्बन्धस्तु पित्रा परमात्मना तदाज्ञयैव च सह न्याय्यः, न तु येन केनापि । असत्यादिना सह तत्संयोजनं तु मातुर्वेश्याभावापादनं स्पर्द्धते । बहुपुण्यव्ययेनावाप्ताऽस्तीयं जिह्वा । अत एषा हितभाषण एव नियोक्त्व्या । हितभाषणमपि प्रियवचनसचिवं दुःखसन्तप्तजनस्योपरि सुधावर्षासङ्काशम् । हितं परिमितं च वचः प्रतिबध्नाति मलिनवृत्तिप्रसरम् ।
प्रायोऽन्तर्वृत्तिरेव प्रयोजिका भवति वचनोच्चारे । यदि तु हितमेवोच्चर्यते तदा क्षयं प्राप्स्यत्यसद्वृत्तिः ।
किञ्चासत्यादहिताच्च वचस इह भवेऽपि प्राप्यन्तेऽपयशोविरोधदुर्भावादयः विपदः । परभवेऽपि जिह्वा रहित एकेन्द्रिय भवेद् भवः । यद्वैडमूकत्वेनोत्पद्येत । भावनीयमत्र मातापुत्रवृत्तम् । यथा दुर्वचसैकेनैव माता करच्छेदमाप, पुत्रश्चारोपितः शूल्यामिति ।
अथ तृतीयायां कायिकशुद्धौ - हिंसां न कुर्यात् । नादत्तादानं