________________
१०८
पञ्चसूत्रोपनिषद् न हि सुवर्णमुद्राऽपि बाढं तप्तयाऽग्निवर्णा परहस्ते दातुमुचिता | मृदुवचनमेवाऽऽदेयं भवति, न तु कर्कशम् । अवधिज्ञानेन पत्न्या नरकगतिं विज्ञाय महाश्रावकेन शतकेन-नरकगामिनी त्वमसि-इत्यभिहितम्, तदपि निषिद्धं भगवतेति विभावनीयमत्र । उद्धतं मदान्धवचोऽपि परिहार्यम्, कर्कशत्वादेव ।
न च परमर्मोद्घाटनमपि कर्त्तव्यम्, दारुणदोषरूपत्वात्तस्य । एतेन हि पुष्यतेऽहङ्कारः परगोचरन्यक्कारभावश्च । अपि चैतद्भावतो हि परदोषान् पर्वतीकृत्य ब्रूते जनः । न चैवं भाषणेन परापायो भविष्यतीत्यपि चिन्तयत्येषः । किञ्च परनिन्दामुक्त्वा परकषायोदीरणं कृत्वा हृष्यत्यसौ । एषोऽपि महाननर्थः । भावनीयमत्र विजयश्रेष्ठिकृतं पत्नीकृतस्वकूपपातनलक्षणमर्मोद्घाटनं विपाकदारुणम् । नाप्यनिबद्धम् - असङ्गतं वाच्यम् । असङ्गतमित्यसम्बद्धम्, निष्प्रयोजनम्, हिताप्रयोजकम् । तच्च विकथारूपम्, दर्शनभेदिनी - चारित्रभेदिनीत्यादिलक्षणपापकथात्मकं च । यच्छृण्वानस्य हीयते देवगुरुधर्मश्रद्धा तत्त्वरुचिः शुभभावना व्रताद्यनुष्ठानं च। अत्यनुचितमेतत् । श्रद्धादिवृद्धिर्यथा स्यात्तथा यतनीयं मतिमता · | तद्धानिसर्जने तु भवेद्धर्मस्यावगणना, सा च विपाकदारुणा । किञ्च बाह्यभावमाहारादिसञ्ज्ञाः कषायाँश्च पोषयन्ति विकथाः | परनिन्दाऽपि पोषयति तद्गोचरस्वरसं तत्त्वनिर्वेदं च । तदेते सर्वेऽप्यशुद्धवाक्प्रकारास्त्याज्याः |
भाव्यं हितमितभाषिणा । हितभाषा नाम स्वपरकुशलजननी सत्यवाक्, यथा परगुणानुवादः, परमात्मस्तोत्रम्, शास्त्रस्वाध्यायः,