________________
पञ्चसूत्रोपनिषद् .
१०७ विषयकान्तरप्रीतिसचिवश्रद्धायाम्, तीर्थस्मरणे, धर्ममनोरथे, स्वदुष्कृतनिन्दायां च । अधमा अपि जीवा उत्तमा बभूवुरेतनियोजनेन ।
द्वितीया विशुद्धिर्वाक्प्रवृत्तेः । तदर्थं न वाच्यमसत्यम् । प्राग् द्वितीय महाव्रतेऽपि प्रोक्तमिदम् । तथापि पुनरभिधानमेतन्माहात्म्यख्यापनार्थम् । असत्यभाषणे हि भवेद्धृदयं मायाकलुषितम् । पुष्यतेऽहङ्कारः सन्मानाऽऽकाङ्क्षा च । यद्वा भयेनाऽऽपाद्यत आत्मनो निःसत्त्वता । यद्वा हृदये भवति व्यर्थरागद्वेषाद्याकुलता । एतदर्थमुच्यतेऽनृतवचनम् । न ह्यसत्यवादी प्राप्नोति भवान्तरे जिह्वाम् । यद्धा रुद्रयातनाप्रयुक्ताऽऽराटिरावणपरामेवाप्नोति रसनाम् । असत्यवृजिनेन हि पतितो वसुराजा नरके । अन्यस्मायालदानेनाऽपि. पुष्यते निष्ठुरो मृषावादोऽधमभावश्च । क्षुद्रहृदयेनैवोद्भवत्यन्यानधमतया ख्यापयितुमिच्छा | सा च भवाभिनन्दित्वपिशुना मुक्तिरुच्यभावमेव ज्ञापयति । किमतोऽपि परं दारुणकर्मबन्धनिबन्धनम् ? विचिन्त्याऽत्र समरादित्यावान्तरकथा, यस्यां भ्रातृपत्न्योरालदानेन भवान्तरे श्रमणीभूताऽप्यवाप्नोति कलङ्कम् । ___ उत्सूत्रभाषणेन तु महामृषावादो मिथ्यात्वं च पुष्यते, अतो हि प्रभूतेष्वपि जन्मसु नावाप्यते जिनदर्शनम् । जमालि मरीच्यादयोऽनेनैव भ्रान्ताः संसारकान्तारम् । अत एभ्यः सर्वेभ्योऽप्यनर्थेभ्य आत्मानं रक्षयितुं त्याज्यो मृषावादः | ___ एवं सत्यमपि परुषवचनं परिहार्यम्, परमर्मविघातहेतुत्वात् । न ह्यन्धोऽपि तत्त्वेनाभिधातव्यः, माता वा पितृपत्नीतया वा ।