________________
१०६
पञ्चसूत्रोपनिषद् कर्त्तव्यमार्तध्यानम् । न हि मत्प्रयत्नशतान्यपि प्रत्यलानि काल-कर्म-भवितव्यता अन्यथाकर्तुम्, अतो न युक्तं मम व्यर्थं तत्साध्यार्थानुचिन्तनम्-इति विभावनीयम् । एवं नाटक-प्रेक्षणकयुद्धादिविषया अपि विचारास्त्याज्याः | नाप्यन्येभ्योऽधिकरणदानं ददामीत्यादि विचिन्त्यम् । स्वयमसत्यस्तेयानीतिदुराचारपरिग्रहसक्त्यादिकं करोमीत्यादिर्विमर्शोऽपि त्याज्यः | नापि विशिष्टधनलाभहेतुको हर्षविमर्शः परसम्पद्विलोकननिबन्धनो वाध्यवसायोऽपि कर्त्तव्यः । एतद्सर्वगोचरमपि विचारणीयं यथा न ह्येते विकल्पा जीवनार्थमावश्यकाः । किञ्च निरर्थकपापप्रवृत्तिरूपा एवैते । कथं महार्योऽपि मत्समय एतत्तुच्छविचारेषु नियोक्तुं न्याय्यः । वरमेतस्मात्पञ्चपरमेष्ठ्यादिध्यानेनैवैष सफलीकर्तुम् ।। ___एवं दानादिकं कृत्वा तदनुशयात्मकमपि मनसोऽनुचिता प्रवृत्तिः । धर्मानुष्ठानं कृत्वा क्रियमाणः सन्तापो भस्मसात्कुरुते तत्सुकृतम् । एतेन हि विपरीताध्यवसाय उदेति धर्मानुष्ठानं प्रति । ततोऽपि विमोहाभिवृद्धिः । धर्मस्तु मोहनिकाराय, न तु तत्पोषाय । उत्तममपि धर्मानुष्ठानं व्यर्थतामुपयाति मनसोऽनुचितप्रवृत्त्येति ध्येयम् । __ अत एतस्मिन् सुन्दरे भवे मनसोऽसौन्दर्यं मा भूदित्येतदर्थं दृढं यतनीयम् । एतद्यतना च मनस उचितवृत्तिमन्तरेण दुर्घटी । अतो नियोज्यं चित्तं सत्त्वमात्रगोचरस्नेहे, दुःखिगोचरदयाभावे, गुणानुरागे, अनित्यादिभावनाद्वादशके, महापुरुषसच्चरित्रचिन्तने, पापसाध्वसाध्यवसाये, परलोकचिन्तायाम्, देवगुरुधर्म