________________
१०५
पञ्चसूत्रोपनिषद् सञ्जातम्, तथापि न भावनीयं दैन्यम्, न गन्तव्यं रङ्कभावम् । न हि परद्रव्यापायेऽनुशोचनं सङ्गतिमङ्गति सचेतसः | नाभाव्यं भवति, नापि भाविनोऽस्ति नाशः, अतो न परद्रव्यहानादौ कर्त्तव्यं दैन्यम् । नापीष्टप्राप्तौ हर्षः कर्त्तव्यः । इन्द्रियनन्दी हि भ्राप्यत्यपारे संसारपारावारे | दुर्गतिदुःखप्रदं हि विषयसौख्यम् । कस्तत्र रज्यति विचक्षण इति । एवमनिष्टविगमेऽपि न चातुरन्तसंसारबम्भ्रमणविगमः, अतो न तत्राप्यनुरक्तव्यं सुमेधसा। न हि श्रावक इष्टानिष्टगोचरौ हर्षशोकौ कुर्यात्, अपि तु धारयेत् समभावम् ।
तथा परिहरेदसदभिनिवेशम् । यत्र हि न विद्यते किमपि तत्त्वम्, नापि कश्चित् सारः, तदुराग्रहस्त्याज्यः । दुराग्रहत्यागार्थमस्त्येतन्मानवजीवनम् । किञ्चात्यन्तमपकालीनमेतज्जीवनम्, तदत्र को व्यर्थासद्ग्रहावकाशः ? तत्त्वाभिनिवेशार्थो ह्ययमवसरे न युक्तोऽतत्त्वाग्रहादिना मोघीकर्तुमिति ।
अतोऽतत्त्वाऽऽग्रहमुत्सृज्य तत्त्व एव मनो योग्यतया प्रवर्त्तनीयम् । यादृशं च सद्वृत्तं सद्भाषणं च, तादृशं चित्तं धारणीयम् | यथा दानं विधाय न भूयो निन्दति याचकान् । योग्यं मनःप्रवर्त्तनम्, यथा नाप्राप्यवस्त्वाकाक्षायां मनः प्रवर्त्तयेत् । प्रतिकूले दैवे वाणिज्यादौ साहसं वितरति दरिद्रताम् । वक्रप्रकृतिकस्य स्वजनस्यानुनयनं प्रत्युताधिकवक्रभावनिबन्धनं भवति ।
किञ्चानर्थदण्डविचारोऽप्यनुचितमनःप्रवृत्तिः । सर्वमपि स्वस्वकर्मणः विपाकानुसारेण भवतीति मत्त्वा न यत्किञ्चिदर्थमपि