________________
पञ्चसूत्रोपनिषद्
१०४
तत्र (१) मानसविशुद्धिः - येनानेकजीवविनाशतदपायकृत् कार्यं स्यात्, तथाविधमारम्भं समारम्भं च न विचारयेत् । तन्दुलमत्सो हि मानसपापेनैव गच्छति सप्तमां नरकावनिम् । कोणिकोऽपि मानसयुद्धपरिणतो जगाम षष्ठीं नरकमहीम् । अतो यत्किञ्चिद्विमर्शात् प्रागेव निभालनीयम्, यथाऽत्रानेकजीवविनाशोऽस्ति, न वेति ।
(२) लोकेऽतिनिन्दनीयमपि न विचारणीयम् । तच्च चौर्यं परवञ्चनमात्मसम्भावनं वा । रूपसेनो राजपुत्रीसुनन्दारूपविभावनपरिणतो मृत्वा सर्प - काक - हंस - मृगभवेषु रूपलोलीभूय मृतः कुमारेण ।
(३) यच्चातिक्लेशप्रदं भवति परस्य, यतस्तत् पापोपार्जनद्वारेणाऽऽत्मन एव पीडाप्रदं भवति । परपीडाविचारो हि बलान्नयति नरकदे रौद्रध्याने । श्रावकेण तु मैत्रीभावसम्भृतेन कृपापरेण च भवितव्यम् । कथन्नामैष परपीडनं विचिन्तयेदपि । अपि च स्वमारके रिपावपि क्षमापरेणैव भाव्यम्, एवं कुर्वाणस्य स्वप्नेऽपि क्व क्रौर्यावकाशः ? विभावनीयमत्र यशोधरमुनिवृत्तम् येन राजभवे मातृतोषार्थं मारितः षिष्टकुक्कुटः । भ्रान्तश्च तथाविधकलुषितचित्तपरिणामेन दुःखयुक्तेषु तिर्यग्भवेषु ।
(४) आत्मनोप्यतिक्लेशनिबन्धनं परिहार्यं कलहादि । अत्रार्थे निदर्शनमग्निशर्मा । यद्वैरानलं प्रज्वाल्य प्रतिभवं गतो निरयम् । त्याज्याश्च निर्लाञ्छनादिकाः कर्मादानव्यापाराः । अभव्यजीवोऽङ्गारमर्दकाचार्ये । जीवव्यापादनपरिणामेन करभतयोत्पन्नः । सागरचन्द्रश्रेष्ठिना यद्यपि किमप्यनिष्टं