________________
१०३
पञ्चसूत्रोपनिषद् कचवरः । अपनेतव्याः क्रोधादिकषायाः । एवं वचनवृत्तं कायचेष्टितं च पवित्रीकर्त्तव्यम् । परिहार्याऽनृता परुषाऽप्रियाऽपरिमिता च वाक् | त्याज्यो बीभत्सत्व-क्रौर्यलक्षणो वपुर्दोषः । ___मनोवाक्कायवृत्तं सज्जनत्वेनाऽऽलिङ्गितं शास्त्रविहितत्वालङ्कृतं च यथा भवेत्तथा यतनीयमित्याशयः । परिणतिं प्रापणीया आत्मनि गाम्भीयौदार्याकृत्रिमस्नेहादयो गुणाः । धारणीयमौचित्यदयासहिष्णुतादिलक्षणं गुणकदम्बकम् । भाव्यं दीर्घदृशा | विचिन्त्यमत्राऽऽचारप्रदीपाभिहितं वैद्यदृष्टान्तम् ।
येन गृहस्थानुचितेन कर्मणाऽवाप्तं वानरत्वम् । पुनरपि . सद्वृत्तोरीकारेण प्राप देवत्वमिति ।
सूत्र : वज्जिज्जाणेगोवघायकारगं, गरहणिज्जं, बहुकिलेसं, आयइविराहगं समारंभं । न चिंतिज्जा परपीडं । न भाविज्जा दीणयं । न गच्छिज्जा हरिसं । न सेविज्जा वितहाभिनिवेसं। उचिअमणवत्तगे सिआ | .
न भासिज्जा अलिअं, न फरुसं, न पेसुन्नं, नाणिबद्धं । हिअमिअभासगे सिआ ।
एवं न हिसिज्जा भूआणि | न गिण्हिज्जा अदत्तं । न निरिक्खिज्जा परदारं | न कुज्जा अणत्थदंडं | सुहकायजोगे सिआ ।
प्राक् सामान्येन शुद्धं वर्त्तनमभिधायाधुना विशेषरूपेण कीदृशो मनोवाक्कायव्यापारस्त्याज्य इत्युच्यते । न हि साधुधर्मपरिभावनायामहिंसाद्यणुव्रतपालनमात्रं पर्याप्तम्, अपि तु मनोवाक्कायवृत्तविशुद्धिरपीत्यवधेयम् ।