________________
१०२
पञ्चसूत्रोपनिषद् राजविष्टिवत् कर्त्तव्यम्, अपि तु भावसारं रुचिपुरस्सरम् । मन्तव्य एतदधिगमेन धन्यः स्वात्मा । तथा यथावदाज्ञानुसरणं कर्त्तव्यम् । यद्यपि तत्पालनं दुष्करं प्रतिभासेत, तथापि विचारणीयं यन्महागुणमाज्ञानुपालनम् । न ह्यतोऽप्यन्तरेण जन्मान्तरार्जितकुवासनाविगमः | .. कल्याणमित्रमेव निषेव्यमत्र संसारे एवं सुदृढमवधारणीयम् । एतदवधारणेनैवोरीकरोति जीव आज्ञापारतन्त्र्यं सन्त्यज्य कर्मपारतन्त्र्यम् ।
एवञ्च निःशेषतया कर्मबन्धनविमुक्तेरुद्घाट्यते द्वारम् । . बाढमादृतस्य कल्याणमित्राऽऽज्ञायां न हि मोहस्यापि सामर्थ्य चालयितुं चेतः ।
(९) धर्मगुणयोग्यगृहस्थाऽऽचारः सूत्र : पडिवन्नधम्मगुणारिहं च वट्टिज्जा, गिहिसमुचिएसु गिहिसमाचारेसु, परिसुद्धाणुट्ठाणे, परिसुद्धमणकिरि, परिसुद्धवयकिरिए, परिसुद्धकायकिरिए ।
प्रतिपन्नधर्मगुणा/ मनोवाक्कायवृत्तमप्यावश्यकम् । आस्तां विशेषचेष्टितम्, सामान्यमपि वृत्तं धर्मिजनशोभास्पदं यथा स्यात्तथा यतितव्यम् । भवितव्यं विविधेषु गृहियोग्यसमाचारेषूचितवृत्तिना । शास्त्रविहितवृत्तविशुद्धिरपि सम्यगवगम्योपादेया । कायाशल्यादिशून्या चान्तःकरणपरिणतिरावश्यका | निरोध्यो मनसि ऋद्धिरससातगौरवसञ्चारः | निराकर्त्तव्यः कृष्णलेश्याप्रसरः । अपाकरणीय आर्त्तरौद्रध्यान