________________
पञ्चसूत्रोपनिषद्
१०१
एतदेव कल्याणमित्रोपासनफलम्, यदनेन प्राप्नोत्यन्धश्चक्षुः । अपगच्छतिरुग्णस्य रुक् । अधिगच्छतिनिर्धनो धनम्, पलायते भीतस्य भयम् । दुर्लभो हि जगति कल्याणमित्रयोगः । सुलभस्तु यत्र तत्राप्यकल्याणमित्रसमागमः । प्रेरयन्ति स्वजना अप्यकार्ये । उपदिशन्ति पापं दुःखविगमोपायत्वेन । एवं च प्रापयन्ति दारुणां दुर्गतिम् । श्रीऋषभदेवजीवमहाबलराजसत्कविषयान्धमन्त्रिगणवत् । स्तोका एव भवन्ति सुबुद्धिमन्त्रिवत्कल्याणमित्राणि । यथा नागकेतुना कल्याणमित्रं प्राप्य विहिताऽऽत्मन उन्नतिः, तथा कल्याणमित्रयोगे यतितव्यम् । न ह्येतत्सेवातोऽप्यधिकं सुन्दरमस्ति जगति किञ्चित् अतः (१) उदारधनिकवदादृतव्यं कल्याणमित्रम् । (२) भवितव्यं तदाज्ञाकाङ्क्षिणा । यथैतन्न किमप्यभिधत्ते, तदाऽपि विचिन्त्यं कदा न्वेष मां किमप्यज्ञापयेदिति । (३) यदा चैष आज्ञापयति किञ्चित्, तदापि सम्यक् तत्प्रतिपत्तिः कर्त्तव्या । यथा कश्चिद् बुभुक्षितो द्रमको बहुकालभ्रमणेनापि किञ्चिदलयमानः कथञ्चित् केनचिदन्नं लभमान आदरातिशयेन तत् स्वीकुरुते तथा कल्याणमित्राऽऽज्ञास्वीकारः कर्त्तव्यः ( ४ ) ततोऽपि यथा न स्यात्तदाऽऽज्ञाविराधना, तथा यतितव्यम् । यस्तु प्रतिपद्याप्याज्ञां । तद्विरुद्धां चेष्टां सेवते, स आज्ञाविरोधी । नैवंविधेन भाव्यम् । कल्याणमित्राऽऽज्ञाविरोधो हि विधत्तेऽनेकदोषपोषम् । दूरीभवन्त्यनेन सद्गुणाः । प्राप्यते दुर्गतिर्भवान्तरे । सुदुर्लभा च भवति पुनर्भवान्तरेऽपि कल्याणमित्रस्याऽऽज्ञा । (५) अपि चौचित्येनानुष्ठातव्या कल्याणमित्रस्याऽऽज्ञा । न च तदनुष्ठानं
1
"