________________
१००
पञ्चसूत्रोपनिषद् न विचार्यं प्रियोऽप्रियो वैष मार्गः, दीर्घो लघुर्वा, सकष्टोऽकष्टो वेति । ____ गोविन्दभूदेवगृहिण्याः समुत्पन्नं जातिस्मरणम्, दृष्टो निजो रुक्मीभवः, प्राप्ता परमसंवेगम्, ज्ञापितस्तया पतिप्रभृतीनां सच्चारित्रसञ्चरः । तैरपि कल्याणमित्रमित्यनुसृतैषा । ___चेत् कश्चिद्रोगी स्यात्, स च रोगपीडयाऽत्यन्तमुद्विग्नस्सन् स्वजीवितादपि निर्विण्णश्चेत् कञ्चित् कुशलमाप्नोति वैद्यम्, तदा सेवते तं भावसारम् । श्रद्दधाति तदुक्तं हृदयेन । शृणोति. तद्वचनं दत्तावधानम् । अनुसरति तदभिहितां रुगपनयनक्रियां प्रयत्नतः । एवं भवरोगनिर्विण्णेन समुपसम्प्रतिपत्तव्यं कल्याणमित्रम् । विचिन्त्यमत्र श्रीसुधर्मस्वामिलक्षणकल्याणमित्रसमुपासनमं श्रीजम्बूस्वामिकृतम् । ___ एवं. कश्चिन्निर्धनो गृहादिवर्जितो राज्यदण्डितः क्षुधानिपीडितकुटुम्बकः केनचिच्छ्रेष्ठिना दत्तहस्तावलम्बस्सन् परमबहुमानेन तं निषेवते । न गणयति तत्सेवापरिश्रमम् । एवमेवात्मसम्पदं प्रतीत्य निर्धनेन जीवेनानुसर्त्तव्यं कल्याणमित्रम् । यथाऽनुसृतं गुणसेननृपेण विजयसेनाचार्याऽऽख्यं कल्याणमित्रम् |
तथा कस्मिंश्चिन्महाभयस्थाने यदि प्राप्यते समर्थाश्रयप्रदाता | भवति चात्मनः शरणम् । तदा परमादरेण स्वीकृत्य तत्पारतन्त्र्यं तं निषेवते जनः । एवमेव सेवनीयं कल्याणमित्रम् | भावनीयमत्रं जिनदासश्रेष्ठिसत्कबलीवर्दद्वयदृष्टान्तम् । यैः प्रतिपन्नः स श्रेष्ठी कल्याणमित्रतया । कृता जिनधर्माराधना | कम्बलशम्बलदेवभूयमुपगताभ्यां निवारित उपसर्गः श्रीवीरस्य ।