________________
९९
पञ्चसूत्रोपनिषद् अपनयत्याराधनाविघ्नानि । प्रशंसति धर्माराधनाम् । उत्साहयति सिद्धिसाधने । सम्मार्जयत्यतिचारादिकचवरम् । रक्षति प्रमादग-निपातात् । विलोकनीयमत्र मदनरेखावृत्तान्तम् । यया स्वपतिरुपशमं नीतः । प्रापितश्च पञ्चमं कल्पम् । तेनापि देवभूयं गतेन रक्षिता सा कामान्धाद् विद्याधरात्, ग्राहिता च परिव्रज्याम् । क एवं कुर्यात् कल्याणमित्रमृते ?
कल्याणमित्रीभूतैर्गृहस्थैरपि कर्त्तव्यं मिथो धर्मप्रेरणम्, आराधनीयाः सम्भूय पर्वदिनाः कर्त्तव्यास्तीर्थयात्राः, प्रतिपत्तव्यानि तपांसि, माननीया धर्मोत्सवाः | उपदेष्टव्यं कल्याणं कल्याणमित्रभूतेन मुनिना । उपबृंहणीयास्तत्प्रवृत्ता भावसारम् । अभिधातव्यस्तत्त्वमार्गः । प्रतिपादितव्यः सिद्धिसञ्चरः । योजनीया भव्यसत्त्वाः शास्त्राध्ययनेषु । स्थिरीकर्त्तव्यास्ते दानादिधर्मेषु सीदन्तः । __यथैवान्धोऽनुकर्षकं निषेवते, रुग्णो यथा वैद्यमाराधयति, निर्धनो यथा धनवन्तं पर्युपास्ते, भीतश्च यथा महानायकं शरणीविधत्ते, तथा सेवनीयानि कल्याणमित्राणि | ..
यथा कश्चिदन्धो नष्टो भीमे कान्तारे । तच्च कान्तारं व्याघ्रादिश्वापदपर्याकुलम्, अनेकोन्मार्गजटाजटिलं च । तत्र चेत् कश्चित् प्राप्यते नायकः । सोऽपि चेन्निपुणः कृपालुनि:स्वार्थश्च, तदा स अन्धस्तं समुपसम्पद्य तदुक्तं सम्यगनुसरेत् । न च तमनुसरन् विचारयत्येष दीर्घ लघु वाऽध्वानम् । नापि चिन्तयति विश्राममविश्रामं वा । एवं भवाटव्यां प्रनष्टेनापि जीवेनानुसतव्य कल्याणमित्रम् । प्रत्येयमेतद्वचनम् । गन्तव्यम् |