________________
पञ्चसूत्रोपनिषद् जीवोऽनेकेषु दुष्कृतेषु । ततोऽपि तत्फलभूतानि विषहते दारुणानि दुःखानि । किञ्चैवमनादिकालीनः परिपुष्यते तत्त्वद्वेषः । एतत्परिणामत एव प्रतिभवं प्रतिबध्यते धर्मरुच्युदयः । ततोऽपि प्रचलति पापाचरणपरम्परा । अतो महाभयङ्करं लोकविरुद्धमाचरणम् । अत एव पारमर्षम् - लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माद् धर्मविरुद्धं लोकविरुद्धं च सन्त्याज्यम् - इति (प्रशमरतौ....)
(८) कल्याणमित्रयोगः सूत्र : सेविज्ज धम्ममित्ते विहाणेणं । अंधो विवाणुकट्ठए वाहिए विव विज्जे, दरिद्दौ हो विव ईसरे, भीओ विव महानायगे। न इओ सुंदरतरमन्नंति बहुमाणजुत्ते सिआ आणाकंखी, आणापडिच्छगे, आणाअविराहगे, आणानिष्फायगेत्ति ।
सन्त्यज्याकल्याणमित्रं विधिपुरस्सरं निषेव्यः कश्चित् कल्याणमित्रभूतः । कर्त्तव्या तस्य सत्प्रतिपत्तिः । प्रत्ययपात्रतां प्रापणीय एषः । एष एव मत्कल्याणसहाय इति श्रद्धेयः सः । अकल्याणमित्राणि क्षणिकविषयसुखप्रदानि हितत्वेन प्रतिभासन्ते मूढस्य, न तु धर्मप्रेरकानि कल्याणमित्राणि। तदत्र मोह एवापराध्यति । कल्याणमित्रगोचरपक्षपातातिशयेन हि शतधा फलति सत्सङ्गः ।
आत्मकल्याणसाधनसहायो हि कल्याणमित्रभूतः । यथा मुनिपुङ्गवो गुणप्रेरको गृहस्थो वा । आत्महितप्रतिबन्धकस्त्वकल्याणमित्रभूतः । साधयति हितं कल्याणमित्रम् ।