________________
पञ्चसूत्रोपनिषद् अतो मा भूदेतादृशदारुणप्रवृत्तिरित्येतदर्थं चिन्तनीयम्, यथा - न हीतोऽपि परोऽनर्थोऽस्ति विश्वे । अतो हि लोकानां धर्म प्रत्यरुच्युदयः । ततश्च भवान्तरेऽपि दुर्लभता धर्मस्य । धर्म प्रत्यादर एव तदवाप्तिबीजम् । एतेनैव सद्गुरुसमागमादिकल्याणपरम्परायोगेन धर्मप्रतिपत्तिपर्यन्तहितसंयोगः । तदुपादेयमत्यपाये तु कुतस्तत्प्रतिपत्तिसम्भवः । तत्रापि चेत्तद्गोचरविरुद्धभावोदयस्तदा तु धर्मप्रतिपत्तिनिमित्तसंयोगेऽप्यसम्भव एव तत्स्वीकारस्येति ध्येयम् ।
एवञ्च सूक्तम् - न लोकविरूद्धादप्यपरोऽनर्थः कश्चिदिति । एतन्निषेवणपरो जनो भवति स्वार्थान्धः । ततश्चोपेक्ष्य स्वपराबोधिमवलम्ब्य पारुष्यं विहाय कारुण्यं प्रगल्भतया तथा प्रवर्त्तते, यथा लोकः कुरुतेतरां धर्मनिन्दां । न ह्येतादृशप्रवृत्तिः सङ्क्लिष्टाध्यवसायप्रकर्षमन्तरेण सम्भविनी । ..
एष सङ्क्लेशो महामोहप्रभवश्चित्तपरिणामः संसारकान्तारेऽनन्यान्धत्वस्थानीयः । न हि विद्यते संसार इष्टविरामः, नापि सन्मार्गगणः । अत एवैष कान्तारोपमः । अत्रापि लोकविरुद्धसेवनं नामाऽन्धत्वम् । अन्धत्वेन हि न दृश्यते पारमार्थिको धर्ममार्गः । कोमलश्चित्तपरिणामो जिनधर्मस्तद्दाता च तद्गोचरादरप्रशंसादिकश्चक्षुस्स्थानीयः । न ह्यतोऽपि परः कश्चित् प्रत्यलः परमार्थहितमार्ग दर्शयितुम् । उक्तचक्षुरभावत एव सञ्जातं जीवस्य भवभ्रमणं नरकादिदुःखनिपातश्च । एवञ्च महदनिष्टकृज्जीवस्याबोधिबीजं लोकविरुद्धसेवनम् । एतेन भवान्तरेऽपि भवति कठोरचित्तपरम्परा । तया प्रवर्त्तते