________________
पञ्चसूत्रोपनिषद् प्राप्नुयुरपरे धर्मम् । तदा स्ववृत्तेनापरेषामधर्मप्रापणस्य तु कथैव केति भावनीयम् ।
धर्मानादरो हि सङ्क्लेशरूपः, अप्रशस्तपरिणामरूपत्वात् । तीव्रमबोधिबीजमेतत् । किञ्च धर्मविरोधिभावजनकं तद्भावदार्यसम्पादकं चैतत् । ततश्च दूरे भवन्ति लोका बोधिबीजतः । तत्र हेतुभावेन स्वयमपि प्राप्नोत्यबोधिं परलोके । येन हि लोकानां धर्मं प्रत्यसद्भावस्स्यात् तल्लोकविरुद्धम् । यथा तिरस्कारपूर्वकं दानम्, यथा-हृष्टपुष्टोऽपि न लल्जसे भिक्षां याचमानस्त्वमित्यादि । एवं हि लोके प्रवर्त्तते धर्मनिन्दा, यथा - कीदृश एषां धर्मः ? - इत्यादि । किञ्च धर्मव्याजेन परवञ्चनमपि लोकविरुद्धम् । प्रतिज्ञाभङ्गोऽपि लोकविरुद्धः | यदि महोत्सवपुरस्सरमनेकसहस्रलोकमध्ये चारित्रं गृहीत्वा स्तोककालानन्तरमेव यदि तन्मुञ्चति, तदा भवति तद् धर्मनिन्दानिमित्तम् । तथा सङ्घभोजनादि धर्मकृत्यमपि कृत्वा यदि तदुच्छिष्टादिसम्मार्जने सम्यग् न यतते, तदा जायते तज्जनगऱ्यानिमित्तम् । सर्वाण्यप्येतानि लोकविरुद्धान्यनुष्ठानानि परिहार्याणि प्रयत्नतो धर्मार्थिणा । यतः -
सूत्र : न खलु इत्तो परो अणत्थो । अंधत्तमेअं संसाराडवीए जणगमणिट्ठावायाणं, अइदारूणं सरुवेणं, असुहाणुबंधमच्चत्थं। ___ लोकविरुद्धा प्रवृत्तिर्जनयत्यपरजनचित्तेषु सङ्क्लेशम् । भवान्तरेष्वपि वञ्चितं विधत्तेऽपरं जनं बोधिलाभात् । आत्मनोऽपि कुरुते दुर्लभं बोधिम् । एवञ्चोभयथाऽपि दारुणत्वान्महाऽनर्थकृल्लोकविरुद्धम् । अन्धभूयमेतद् भीमायां भवाटव्याम् ।