________________
पञ्चसूत्रोपनिषद्
___ (७) लोकविरुद्धत्यागः अकल्याणमित्रवल्लोकविरुद्धमप्यनर्थकृत् ।
तच्च व्यसनसप्तक-निन्दा-खरकर्मादिरूपम् । येन लोकस्याशुभाध्यवसायसङ्क्लेशप्रभृतिस्स्यात्तदपि लोकविरुद्धम् । साधुधर्मपरिभावनापरायणेन तु दयैकतत्परेण भाव्यम् । रक्षणीयाऽनेन स्वकीयाप्रवृत्ति:; यथाऽनया न स्यात्परेषामधर्मप्रेरणम् ।
नन्वेवं पौषधाद्यप्यकर्त्तव्यमापन्नम्, तेनाऽपि केषाञ्चिद्विरोधमत्युदयदर्शनादिति चेत् ? न, प्रथमतो ऽप्यशुभाध्यवसायकलुषिततया धर्मनिन्दकानां तत्कालुष्ये धर्मस्य विशिष्टाहेतुत्वात् । किन्तु यदा पौषधादिधर्मानुष्ठानप्रवृत्तोऽस्थानकायिक्यादिना धर्मनिन्दाहेतुर्भवति, तदा तल्लोकंविरुद्धम् । ननु सङ्घभोजनादिमहाव्ययसाध्यधर्मानुष्ठानं तु लोकविरुद्धमेवेति चेत्? न, किन्तु यदा तत्कार्येवाल्पतमव्ययसाध्यामप्यनुमोदनां न कुरुते, तदा तल्लोकविरुद्धम्, धर्म एवेदृश एषां कृपणानामित्यादिलोकनिन्दानिबन्धनत्वात् ।
यदि तु काचिदुचिताऽपि प्रवृत्तिरमुकस्य निजाज्ञानदोषेण विरुद्धा प्रतिभाति, तदा तन्न लोकविरुद्धम् । किन्तु बहुजनानां मा भूत् स्वकृत्ये विरोधप्रतिभास इत्येतदर्थं सावधानेन भाव्यम् । सामान्यापि प्रवृत्तिर्यत्नसाध्या भवति गुणोपासकानाम् । एष एवाभिप्रायो भवत्येषां यन्मा भून्मत्प्रवृत्तितः कस्यचिद्धर्मजुगुप्सा तन्न्यक्कारश्च । धर्मी तु तथा वर्तते, यथा तच्चेष्टितं दृष्ट्वाऽपि