________________
पञ्चसूत्रोपनिषद्
स्मर्त्तव्यमत्रोपासकदशाङ्गस्थमानन्दकामदेवादिवृत्तम् । धर्मप्रतिपत्त्यनन्तरमेव तैः प्रथममुरीकारितो धर्मः स्वभार्याभिरपि । ततश्च धर्मात्मतामुपयातास्तद्गृहिण्योऽपि बभूवुर्धर्मसहायाः । अत्र वैधर्म्यदृष्टान्तं नन्दमणिकारः, योऽकल्याणमित्रसङ्गेन त्यक्त्वान् श्राद्धताम् । प्रवृत्तो वाप्यादिनिर्मितौ । आर्त्तध्यानमुपगतस्सन् कालं कृत्वा जगाम तिर्यक्त्वम् । उदभवत् स्वनिर्मितायामेव वाप्यां दर्दुरत्वेन ।
९४
स्वजनादयो विनेयाः कल्याणमित्रताम्, यत भवेयुरेते धर्ममित्राणीति तात्पर्यम् । किञ्च नूतना एंवावाप्ता धर्मगुणाः । अतो रक्षणीया एते यत्नतः । दुर्गुणास्त्वनादिकालीनाः, अतो भेयमेभ्यः, मा भूदुन्मज्जनमेषामात्महितविघातकृदिति । दुर्गुणपरिहार एवात्महितम्, साफल्यं मनुजजन्मनश्च ।
न हि क्षणिकसम्पन्नश्वरविषयसुखार्थं दारुणदुर्गतिदुःखोरीकारों युज्यते सचेतसः । अतः परिहार्या एव दोषाः, तत्परिहारार्थमपि वर्जनीय एवाधर्ममित्रसङ्गः, दोषपोषसहायत्वात्तेषाम् । ते च भवन्ति परलोकचिन्ताविरहिताः । न विचारयन्ति ऐहिकं पारलौकिकं च हितम् । अतोऽहितप्रेरणादारभ्य बलात्तत्र प्रवृत्तिमपि कारयन्ति ते ।
विचारणीयमत्र मरीचिवृत्तान्तम् । अकल्याणमित्रकपिलसङ्गेन भाषितमनेनोत्सूत्रम्, विस्मृतं सम्यग्दर्शनदौर्लभ्यम्, पुष्टिं नीतमनादि मिथ्यात्वम् । ततोऽपि तेनैवाकल्याणमित्रसङ्गेन तदुत्सूत्रभाषणप्रायश्चित्ताद्यभावतः प्रभूतभवान् यावद्दुर्लभतां नीतं सद्दर्शनम् । अतस्त्याज्यमेवाकल्याणमित्रम् ।