________________
पञ्चसूत्रोपनिषद्
९३ एतदेवानाद्यज्ञानविजृम्भितम्, यद् देवगुरुगोचरो नोदेति ममकारः । अपि तु शरीरादिविषयः । परिपालयति मूढजीवो गृहादिकं यत्नतः । न तु निभालयत्यपि जिनालयश्रमणप्रतिश्रयादिकम् । अन्तरेणाप्युपदेशं प्रवर्त्तते गृहकार्यादौ । न तूपदेशेनापि धर्मानुष्ठाने । तदत्र मोहरोगे जिनाज्ञालक्षणं चिकित्साशास्त्र-मनुसृत्य भावारोग्यप्रापणमेव परमार्थ इति
(६) अकल्याणमित्रत्यागः सूत्र : वज्जिज्जा अधम्ममित्तजोगं । चिंतिज्जाभिणवपाविए गुणे, अणाइभवसंगए अ अगुणे । उदग्गसहकारित्तं अधम्ममित्ताणं, उभयलोगगरहिअत्तं, असुहजोगपरंपरं च |
श्रमणजीवनसत्कपुनतावस्थाधिगमार्थं षष्ठं वस्त्विदमकल्याणमित्रत्यागाख्यम् । अकल्याणमित्रमात्मकल्याणघातकम् । यथा द्यूतकृच्चौरो दुराचारो वा । प्रवर्त्तयत्येष मृषावादादौ । प्रसभं कारयति हिंसादिकम् । उदीरयति क्रोधादिदोषान् । प्रेरयत्यभक्ष्यभक्षणादौ । पातयत्याहारादिसञ्ज्ञागर्त्तायाम् । स च बाह्यरूपेण सुहृन् मात्रादिको वाऽपि परमार्थतोऽकल्याणमित्रमेव, मोहस्फातिप्रयोजकत्वात्, बाह्यभाववर्धनत्वात्, संसारानुरागनिबन्धनत्वाच्च । ____ ननु चैवं स्वजनोऽप्यकल्याणमित्रभूतस्त्याज्यस्स्यादिति चेत्? को वा किमाह, त्याज्य एवात्महितार्थिना स इत्युत्तमा नीतिः | यद्वा सोऽपि प्रापणीयः कल्याणमित्ररूपताम् । प्रज्ञापयितव्यं तस्मै यदात्मगुणा एव प्रशमप्रभृतयः परमार्थोपकारिण आत्मनः, अनन्तभाविकालसौख्यनिबन्धनत्वात् - इत्यादि ।