________________
९२
पञ्चसूत्रोपनिषद् ज्ञाग्रहणादौ । अतो व्रतसम्पन्नोऽपि श्राद्धो जिनागमोदितजीवादितत्त्वसद्विधिसामाचारीहेयोपादेयप्रभृत्यवगमं कुर्यात् । भावयेदेतज्ज्ञानतः स्वकीयं हृदयम् ।
आज्ञाया भावनं पारतन्त्र्यं च सम्पाद्यते देवगुरुभक्त्या, तत्त्वावगमेन, परमात्मध्यानेन, व्रताभ्यासेन, इन्द्रियनिग्रहेण, कषायजयादिना च ।
तत्त्वागमेन हेयतया प्रतिभासते सावद्यम्, ततश्च परिह्रियन्ते तद्धेतुका रागद्वेषाः । ततोऽपि क्रमेण प्राप्यते मुक्तिः । तीर्थकृतोऽपि पूर्वजन्मस्वनेनैव विपरन्ति तत्त्वावगमसञ्चरेण । अनेनैव सुधापानेन प्राप्नुवन्त्यजरामरत्वम् । उपासितं मरुभूतिजन्मप्रभृत्या श्रीपार्श्वनाथजीवने प्रतिजन्म कल्पतरूपमं जिनवचनम् । अत एव दशमभवेऽवाप्य तीर्थकृत्त्वमाप परमं शिवम् । भवदत्तभवादारभ्य जिनवचनानुशीलनेन प्राप्तं जम्बूस्वामिना पञ्चभवे निर्वाणम् ।
प्रत्यात्मप्रदेशमस्ति वीतरागत्वप्रयुक्तमनन्तं सुखम्, परमानन्दहेतुका मधुरता च । तदाविर्भावार्थं यतनीयं जिनाज्ञापरिभावनादौ । कस्तूरीकल्पा हि जिनाज्ञा, अपनयत्येषाऽनादिकालीनं दोषदुर्गन्धम् । अपनीते च तस्मिना विर्भवत्यात्मगुणसुरभिः स्वयमेव । .
किञ्चाऽऽज्ञैवैषा चिकित्साशास्त्रस्थानीयाऽपनयति मिथ्यात्वलक्षणं मान्द्यम्, निराकरोत्यविरत्याख्यमातङ्कम् कषायोपमं रोगं च । न ह्येतदुपेक्षया कर्मव्याधिचिकित्सासम्भव इत्यत्राऽऽदरो हितः ।