________________
पञ्चसूत्रोपनिषद् - इति । उपेत्यासौ पप्रच्छ जिनम्, यथा - कथमहमेकपिण्डमात्रग्राह्यप्यनेकपिण्डिकः ? इति । ज्ञापितश्चासौ सद्भाव भगवता । अपनीतमस्य दर्शनचारित्रमोहावरणलक्षणं मान्धं जिनवचसा | प्रतिपन्नोऽनेन षट्कायरक्षाऽऽत्मकः श्रमणधर्मः | विभावनीयमुत्तराध्ययनोक्तं संयतीयाध्ययनमप्यत्र ।
जिनाज्ञा हि सर्वकर्मक्षयप्रयोजकतया मुक्तिनिबन्धनम् । शिवफलप्रदकल्पतरुकल्पा हि जिनाज्ञा । तृणायैतस्याः पुरस्तात् स्वर्गस्था कल्पवृक्षा अपि । न हि वितरन्त्येते मोक्षलक्षणं फलम् । जिनाज्ञा तु चूर्णयति बाह्याभ्यन्तरतपःकुलिशेन कर्माचलम् । वितरत्यल्पकालेनैव मोक्षफलम् । अतो कर्त्तव्यमाज्ञाग्रहणम्, उपादेयं तद्भावनम्, प्रतिपत्तव्यं च तत्पारतन्त्र्यमिति ।
स्यादेतत्, अणुव्रताधिगममात्रेणैव गुणवत्त्वाधिगतेर्व्यर्थमेवाज्ञाग्रहणादिकमिति चेत् ? न, व्रतमात्रतः सिद्ध्यसिद्धेः, तत्पालनफलानुभूतिमात्रपर्यवसानात् । अहिंसाबाधेन सत्यादिप्रवृत्तिप्रसक्तेश्च । तदत्र विशुद्धाराधना जिनवचोग्रहणमननादिनैव शक्या । अन्यथा तु यद्यपि श्राद्धो नोल्लङ्घयेत् परिग्रहपरिमाणम्, स्वीकृतविभवे तु न मुञ्चेद् गृद्ध्यतिशयम् । एवञ्च व्रतानुपालनमपि वैफल्यमुपेयाज्जिनवचोविभावनमन्तरेणेति निपुणं निभालनीयम् । उक्तरीत्या त्रसहिंसाप्रत्याख्याने सत्यपि निःशूकतया स्थावरहिंसाप्रवृत्त्यादिकमपि दृष्टव्यम् । नीतिप्राप्तविभवाद्यनुभवे यदि कश्चित् प्रतिबन्धकतामुपेयात् तदा तद्गोचरो द्वेषोऽपि स्यादेव जिनवचनानभिज्ञस्य, अतो यतनीयमा