________________
९०
।
पञ्चसूत्रोपनिषद् तस्य हृदये वसति प्रशमपुष्करावर्त्तमेघः । विद्यत एवास्य हृदये परमं माध्यस्थ्यम् । ततश्च भजतेऽसावुदासीनभावम् । ततश्चानवकाशोऽस्मिन् द्वेषादिविकारस्य । एवंविधावस्थाविशेषानुदये तु हृदयाश्रयजिनाज्ञानिवास एवाऽऽरेकास्पद इति भावनीयम् ।
अद्भुतं हि सामर्थ्यं वर्तते जिनाज्ञाजले द्वेषाद्यनलोपशमार्थम् । उवसमसारं खु सामण्णं - इत्येतन्मात्रं वचो बभूव श्रीहरिभद्रसूरेः क्रोधानलप्रशमनिबन्धनम् ।। - (३) तथाऽऽज्ञैव चिकित्साशास्त्रम्, कर्मव्याध्यपनयनप्रकारोपदर्शकत्वात् । एतदनुसरणेनैव कर्मक्षयो मोक्षश्चेति विभावनीयम् । . न हि कर्मतः परः कश्चिद् व्याधिर्जगति । तस्यैव जन्ममरणेष्टेतरसंयोगवियोगशोकसन्त्रासदैन्यास्वास्थ्यारत्यादिदुःखसन्दोहनिबन्धनत्वात् । कर्मव्याध्यपनयनार्थ जिनागमेष्वमोघचिकित्साप्रकारा उपवर्णिताः । यदादरेण मूलत उन्मूल्यते कर्मव्याधिः ।
जिनवचनं ह्यभिदधाति नियतां मुक्तिसाधनक्रियाम् । इन्द्रनागतापसो हि चकारोपवासद्वयपारणद्वितीयदिनादेवापरमुपवासद्वयमेवं नित्यशः | उग्रमप्यस्य तपोऽज्ञानकष्टमयम्, प्रतिगृहं तन्निमित्तमारम्भप्रवृत्तेः । तेषु चैकस्मिन् गृहे चकारैष पारणम् । सकृदाजग्मुस्तन्नगरे श्रीमहावीरस्वामिनः । प्रेषयामासुस्तत्प्रतिबोधार्थं श्रीगौतमस्वामिनम् । गत्वाऽकथयदेष तम्, यथा - भो अणेगपिंडिया । एगपिंडिओ तं दठुमिच्छइ