________________
पञ्चसूत्रोपनिषद्
८९
हि मोहविषापनयनाय परममन्त्रः । मोहो रागो द्वेषश्चात्मनो विकृता जुगुप्सनीया चावस्था । एत एव भाविकटुविपाकविटपिमूलस्थानीयाः । एभिरेव व्यर्थतां नीयते दुर्लभ आत्महितावसरः । प्रतिहन्यत एभिरात्महितम् । विधीयते चाहितमात्मनः । तदेतत्सर्वमपि ज्ञायते जिनाज्ञया । अत एषैव मोहविषनिराकरणप्रवणः परमो मन्त्रः ।
न हि सर्वज्ञमन्तरेण जानात्यन्यः कश्चित् सूक्ष्ममोहप्रक्रियाः, कर्मबन्धसङ्क्रमोद्वर्त्तनापवर्त्तनानिकाचनादि प्रवृत्तिम्, दारुणतत्परिणामम्, विचित्रतत्कार्यपद्धतिम्, आज्ञापालनानुभावं
च ।
सर्वज्ञाज्ञयोक्तसर्वाधिगमेनैवोल्लसत्यात्मनि वीर्यम् । तत एवापनयत्यसौ मोहविषम् । न हि सर्वज्ञाज्ञानभिज्ञ उद्यच्छत्येतदर्थम् । न वेत्त्यसौ मोहदुरन्तताम् । पश्यति प्रत्युतैनं हितम् । ततश्च बम्भ्रमति गहने भवकान्तारे । जिनाज्ञालक्षणो महामन्त्रो हि निराकरोति मोहविषविकारम् । विधत्त आत्मगुणप्रकाशम् । कारयति परमपदं प्रति प्रयाणम् । अतोऽन्यथा मोहविषविकारनिकारो दुःसम्भवीति भावनीयम् ।
श्रमणभगवन्महावीरवचसा हीन्द्रभूत्यादिभिरपनीतो मिथ्यात्वमोहक्ष्वेडः । पराकृतमविरतिविषम् । प्रतिपन्नं चारित्रम् । अवाप्तं गणधरपदम् । एवमनन्ता गणधरा प्रापुर्निर्मोहपदं जिनाज्ञामहामन्त्रानुभावेन ।
(२) किञ्च जिनाज्ञैव द्वेषारतिशोकाद्यात्मकानलविध्यापनार्थं पानीयरूपा । यस्य हि हृदये निवासो बभूव जिनाज्ञायाः,