________________
पञ्चसूत्रोपनिषद्
स्वस्त्रीसन्तोषश्चेति तात्पर्यम् । (५) स्थूलपरिग्रहपरिमाणम् - धनधान्यादेरमुक-ऽपरिमाणस्यानुल्लङ्घनम् । एतत्पञ्चाणुव्रतानि मूलगुणाः । दिक्परिमाण - भोगोपभोगपरिमाणाऽनर्थदण्डविरमणत्रितयं गुणव्रतरूपम् । तथा सामायिक- देशावकाशिक-पौषधाऽतिथिसंविभागलक्षणं चतुष्टयमुत्तरगुणरूपम् । एते धर्मगुणा इत्यवगन्तव्यम् ।
८६
आदावुपन्यास एषाम् भावत इत्थमेव प्राप्तेः, उक्तञ्चसम्मत्तम्मि उ लद्धे पलियपुहत्तेण सावओ होज्जा । चरणोवसमखयाणं सागरसखंतरा होंति ।। एवं अप्परिवड़िए सम्मत्ते देवमणुयजम्मेसु । अण्णयरसेढिवज्जं एगभवेणं च सव्वाइं ।। इत्यादि ।
,
तदेतदर्थमावश्यकं कषायमान्द्यम्, उत्तरोत्तरभावविशुद्धिश्च । श्राद्धत्वेन ह्यारोहणं भवति सम्यग्दृष्टेर्जीवस्य । अतोऽत्र धर्मगुणतया दर्शितानि प्रथमं श्राद्धानामणुव्रतानि ।
( ४ ) व्रतपालनं जिनागमग्रहणभावनपारतन्त्र्याणि च
सूत्र : पडिवज्जिऊण पालणे जइज्जा, सयाऽऽणागाहणे सिआ सयाऽऽणाभावगे सिआ सयाऽऽणापरतंते सिआ ।
एवं प्रतिपद्य धर्मगुणान् यतनीयं तत्पालने यथा रत्नकरण्डकं कञ्चिन्महामन्त्रं चावाप्य तदनुपालने महानादरः क्रियते, तथाऽनन्तकालानन्तरं प्राप्ता अपूर्वरत्नकरण्डकस्थानीया धर्मगुणा रक्षणीयाः । एतदर्थमपि प्रवर्त्तनीयं वक्ष्यमाणे विधौ ।
एतत्त्वत्रावधेयम् - (१) यद्यप्यादावत्रानुभूयेत दुष्करत्वम्,