________________
पञ्चसूत्रोपनिषद्
८७ तथापि सम्यक् तदनुपालनेनाल्पेनैव कालेन प्राप्यतेऽल्पेनैव कालेन निर्मलचैतन्यप्रकाशः । (२) धर्मगुणा एवात्मनो निजं धनम् । सोढानि ह्यात्मना दुःखशतानि परद्रव्याधिगमार्थम् । ततोऽधुनाऽऽत्मविभूतिरूपधर्मगुणावाप्त्यर्थं कथं न सहितव्यम् | विचारणीयानि सागरचन्द्र-कामदेव-चन्द्रावतंसक-प्रभृतिवृत्तान्तान्यत्र ।
(२) सदैव भाव्यं जिनाज्ञा ग्राहकेन । कर्त्तव्यं प्रतिदिनं जिनाज्ञाध्ययनम्, तच्छ्रवणं च । न चाध्ययनान्तरं श्रवणेन कोऽर्थ इति वाच्यम्, प्रतिपन्नव्रतगुणगोचरतात्त्विकश्रद्धाधिगमार्थं तत्त्वज्ञानावाप्तेरावश्यकत्वात्, तदर्थं च शास्त्राध्ययनं प्रधानाङ्गम् । तदध्ययनं कृत्वापि विशेषावगमार्थं गुरुमुखेन कर्त्तव्यमेव तच्छ्रवणम् । अतः श्रोतव्या जिनवाणी निशम्या श्राद्धसामाचारी, कर्णावतंसीकर्त्तव्या वैराग्यरसधारा । अन्यथा तु दुर्लभोऽहिंसादिगोचरो वर्धमानः परिणामः । भयं च तन्मान्द्यस्य | सन्ततं शास्त्रश्रवणं हि विदधाति श्रद्धादाय॑म् । श्राद्धसामाचारीश्रवणेनैव सम्भव्यनाद्यभ्यस्तमिथ्याप्रवृत्तिनिरोधः । न हि गुरुवाणीश्रवणमन्तरेणोदेति तत्त्वदृष्टिः सारासारविवेकः शुभाशुभध्यानावगमश्च । तदनुदयात् क्लिष्टकर्मबन्धः । अत आवश्यकं जिनाज्ञाश्रवणम् । ___ (३) एवं जिनाज्ञाया अध्ययनं श्रवणं च यथाऽऽवश्यकम्, तथा भावनमपि तस्या आवश्यकम् । जिनाज्ञागोचरचिन्तनमननाभ्यामात्मनस्तद्भावभावितत्वाऽऽपादनं हि भावनम् । यथा हि विषयसुखाभिलाषी जनस्तत्साधनानि प्रत्यादरं विधत्ते, शृणुते