________________
पञ्चसूत्रोपनिषद्
८५ तथापि दुर्लभास्तेष्वपि धर्मगुणाः । पापफलमनुभवतामपि नारकाणां तदुद्वेगानुदयात् । प्राक् हि व्रतभङ्गं कुर्वद्भिरादृता दोषा भावसारम् । ततः कुतस्तेषां धर्मगुणसौलभ्यम् ? व्रजन्ति चतुर्दशपूर्विणोऽपि महामोहोदयान्निगोदम् । महाव्रतभङ्गेन गतः कण्डरीकः सप्तमां नरकावनिम् । अतः प्राणाधिकान् मन्त्वा रक्षणीया धर्मगुणाः । भावनीयस्तद्भङ्गदुर्विपाकः |
(३) विधिपुरस्सरं भावसारं व्रतस्वीकारः सूत्र : एवं जहासत्तीए उचिअविहाणेणं अच्चंतभावसारं पडिवज्जिज्जा तं जहा
(१) थूलगपाणाइवायविरमणं, (२) थूलगमुसावायविरमणं, (३) थूलगअदत्तादाण-विरमणं, (४) थूलगमेहुणविरमणं, (५) थूलगपरिग्गह-विरमणमिच्चाइ ।।
ते च धर्मगुणा एते - तद्यथा - (१) स्थूलप्राणातिपातविरमणम् । न ह्यहं निरपराधत्रसजीवान् निरपेक्षतयोपेत्य हनिष्यामीत्येतद् व्रतम् । सावच्छेदं चैतत्, स्थावराणां सापराधत्रसजीवानां चाहिंसाया अनङ्गीकरणात् । (२) स्थूलमृषावादविरमण - अंशेन मृषाभाषणत्यागः । कन्यादिपञ्चवस्तुगोचरासत्यवचनपरिहार इत्यर्थः । (३) स्थूलादत्तादानविरमणम् - अदत्तं केनचिदवितरितम्, तस्याऽऽदानम् - ग्रहणम् - अदत्तादानम् - ततोऽशेन विरन्तव्यम् । कूटतोलादिपञ्चकात्मक-मदत्तादानं न कर्त्तव्यमिति भावः । (४) स्थूलमैथुनविरमणम् अंशेनाब्रह्मविरतिः । परस्त्रीगमनविरतिः