________________
पञ्चसूत्रोपनिषद् अधिगतं वृत्तपावित्र्यम् । आसादिता सुविशुद्धाः संस्काराः | कथन्नामैष धर्मगुणो मयि क्षीरनीरवदेकायनीभावं व्रजेत् ? इत्याद्यनुचिन्तनेन भावनीयो धर्मगुणभावनयाऽऽत्मा ।
(२) धर्मगुणात्मकानां व्रतानां दुष्करता सूत्र : तहा दुरणुचरत्तं, भंगे दारुणतं-महामोहजणगतं, एवं दुल्लहत्तं ति । ___ एवं परिभाव्य व्रतप्रकृतिसौन्दर्यादि विशुद्धतत्पालनार्थं भावनीयं यथा - (१) पूर्वाभ्यासाभावाद् व्रतपालनं दुष्करं सकष्टं च । अतो सहर्ष विषह्य कष्टानि पालनीयान्येतानीति दृढमवधारणीयम् । न ह्यल्पमूल्या धर्मगुणाः । महासत्त्वसाध्यश्चैषां निर्वाहः | निभालनीयमेतदर्थे वङ्कचूलवृत्तान्तम् ।
(२) धर्मगुणप्रतिपत्तेः प्रांगेतदपि ज्ञातव्यं यथा प्रतिज्ञापुरस्सरं व्रतग्रहणं कृत्वा यद्येतानि भज्यन्ते, तदाऽऽसाद्यते दारुणो विपाकः । न हि जिनाज्ञोल्लङ्घनमन्तरेण तद्भङ्गसम्भवः, दुरन्तं च तदुल्लङ्घनम्, महापापरूपत्वात् । जिनाज्ञाभङ्गो हि जनयति महामोहम् । कारयति लोके धर्मनिन्दाम् । दधाति धर्मेऽरुचिं लोकः । अपास्तधर्मप्रीतिर्दोषपक्षपातयुक्तश्च सञ्जायते तद्भङ्गकृज्जनः । एवञ्च भवान्तरेऽपि दुर्लभा भवन्ति धर्मगुणाः । निबन्धनं चात्र धर्मगुणावधीरणा, दोषपक्षपातप्रयुक्ततदनुगुणभवाधिगतिश्च । ततश्च प्रकृत्यैव भवेद्धिंसामृषावादादिदोषपक्षपातः । दुर्लभाश्च स्युरहिंसादयो गुणास्तत्र । अपि च नरकेषु विषह्यन्ते दारुणानि दुःखानि ।