________________
पञ्चसूत्रोपनिषद् अतः परलोकेऽप्येतेऽनुगच्छन्त्यात्मानम् । ततश्च परलोकेऽपि प्राप्यन्ते प्रकृतिसौन्दर्यपुष्टिप्रयोजकाः सद्गत्यादयो भावाः । सुव्रतश्रेष्ठ्यादिवत् । ननु च हिंसादयोऽपि परलोकानुयायिन एवेति को विशेषो धर्मस्येति चेत् ? सुखमात्रहेतुत्वाख्येति गृहाण । दुःखैकनिबन्धनरूपा हि हिंसादयः परलोकेऽपि, अत न ते प्रेत्य शम्बलरूपतां प्रतिपद्यन्ते, अतो धर्मस्यैवं तत्ता प्रतिपत्तव्या ।
(४) परोपकारित्वम् - अहिंसादिभिर्विधीयते परपीडापरिहारः | क्रियते परः परोपकारः । नैतन्मात्रम्, अपि त्वात्मनोऽपि तैरेव विधीयत उपकारो दुर्गतिनिरोधलक्षणः सद्गतिसाधनरूपश्च । एवञ्चानेन क्रियत आत्मा सातयशउच्चगोत्रादिभाजनम् ।
कुमारपालभूपालसत्के नाहिंसाव्रतेन दत्तमभयदानं जीवलक्षेभ्यः | श्रीहीरविजयसूरेरूपदेशेनाक्कबर-साहिर्बभूवाहिंसाप्रवर्तकः ।
(५) परमार्थकारित्वचिन्तनम् - गुणाभ्यासो हि क्रमेण विशुद्धतराहिंसादिगुणाकर्षणद्वारेण जीवं महापवित्रं विधाय यावन्मुक्तिसौख्यमपि वितरति । एवं च साधयत्येष परमार्थम् । नैतन्मात्रम् अपि त्वन्यानपि जीवान् प्रापयति कल्याणम् । न ह्येतदुपकारसामर्थ्यं हिंसादिषु । भावनीयान्यत्र मेघरथ-श्रीकान्तराजश्रेष्ठि-विजयश्रेष्ठिविजयाश्राद्धी-मणिकान्तश्रेष्ठिसत्कानि वृत्तान्तानि |
अहो दुर्लभे मनुजभवेऽवाप्यार्यदेशमुत्तमं कुलं चावाप्ता महासुखमयधर्मजीवनपदवी । प्राप्तोऽवसरो जगदुपकारस्य ।