________________
पञ्चसूत्रोपनिषद्
सूत्र : निरणुबंधे वाऽसुहकम्मे भग्गसामत्थे सुहपरिणामेणं, कडगबद्धे विअ विसे, अप्पफले सिआ, सुहावणिज्जे सिआ, अपुणभावे सिआ ।
७८
एवं पञ्चसूत्रेण हृदयोद्भवाः शुभाध्यवसाया अपनयन्त्यशुभानुबन्धविषम् । प्रतिबध्यते तेनाशुभकर्मणां विपाकपरम्पराजननसामर्थ्यम् । यथा मन्त्रसामर्थ्येण कटकबद्धं विषमल्पतरफलं भवति, एवं चतुःशरणगमनादि प्रशस्तपरिणामात्मकेन मन्त्रेणात्रावशिष्टाशुभकर्मात्मकं विषमल्पविपाकं भवति । ततश्च स्यादेतत् सुखापनेयम् । न चान्यदपि तथाविधमुत्कृष्टस्थितिकं कर्म बध्यते पुनरपि । एवञ्च यथा पूर्वकाल आत्मनाऽनुभूतोऽशुभकर्मविपाकः, तथा नैष्यत्काले प्राप्येत कदाचित् । एवमवगम्य चतुःशरणगमनाद्युपायत्रयनिसेवनफलातिशयं निसेवनीयमेतत्प्रतिदिनं त्रिकालम् ।
एवमपायापगमरूपं फलमुक्त्वाऽधुना सदुपायसिद्धिलक्षणं
फलमाह
सूत्र : तहा आसगलिज्जंति परिपोसिज्जंति निम्मविज्जंति सुहकम्माणुबंधा । साणुबन्धं च सुहकम्मं पगिट्ठभावज्जिअं नियमफलयं सुपउत्ते विअ महागए सुहफले सिआ, सुहपवत्तगे सिआ, परमसुहसाहगे सिआ ।
-
एतत्सूत्रतदर्थपठनादिभिः सञ्चीयन्ते प्रभूताः शुभकर्मानुबन्धा आत्मनि । पुष्यन्ते च ते शुभभावाभिवृद्ध्या प्राप्नुवन्ति परां काष्ठाम् । अहो महामहिमेदं पञ्चसूत्रम् । सानुबन्धं हि कर्म तद्भावत उत्कृष्टं भवति । शुभाध्यवसायप्रकर्षोपार्जित
T
1