________________
७९
पञ्चसूत्रोपनिषद् त्वेनैतन्नियोगतो भवत्युत्तमफलप्रदम् । यथैवैकान्तकल्याणकृदुत्तममौषधं सम्यग् विधिप्रयुक्तमारोग्यपुष्ट्यादिकं प्रयच्छति सुन्दरं फलम् । एवं सानुबन्धं शुभं कर्माऽपि प्रवर्त्तयति प्रशस्तानुष्ठाने, प्राप्नोत्युत्कृष्टकोटिम्, साधयति परम्परया निर्वाणोद्भवं परमं सुखम् । यथैवाशुभानुबन्धेनानन्तः संसारः, तथैव शुभानुबन्धप्रकर्षतोऽनन्तमोक्ष इति तात्पर्यम् ।
अत एव निदानं विना. रागादिं विमुच्योभयलोकाशंसा परिहृत्याशुभानुबन्धान् निरुध्य कर्त्तव्य एतत्सूत्रपठनादिना शुभभावोल्लासः । असाधारणं निमित्तकारणमिदं सूत्रं शुभभावोल्लासे । अतः सत्प्रणिधानेन चित्तप्रशमसचिवं पठनीयमे तत् । कर्त्तव्यं व्याख्यानुसारेण तच्छ्रवणम् । चिन्तनीयस्तत्पदार्थः | __ अथात्र निदाननिषेधनमयुक्तम्, प्राग् होउ मे एसा अणुमोयणा - इत्यादिग्रन्थतो निदानस्याभिहितत्वादिति । मैवम्, तस्य निदानत्वाभावात् ।
रागद्वेषमोहान्यतमप्रयुक्ताशंसा हि निदानपदार्थः । सा च भवति क्लिष्टकर्मबन्धनिबन्धनम्, प्रापयति भवपरम्परां स्फातिम् । संवेगाभावस्तद्धेतुः । भावनीयान्यत्र त्रिपृष्ठ - ब्रह्मदत्ताऽग्निशर्मवृत्तान्तानि | अकर्त्तव्यानि निदानानीत्यत्र निष्कर्षः ।
किन्तु न निदानलक्षणं घटते प्रकृतायां सुकृतानुमोदनायाम् । न हि दोष कल्मषशून्या विशुद्धभावसचिवाऽप्येषा निदानरूपा, मुक्तिप्रार्थनाया अपि तत्त्वप्रसक्तेः । अनिष्टं चैतत्, आगमविरुद्धं च । यथाऽऽरोग्यबोधिलाभयाञ्चा निदानं न भवति, तन्निषेधकवचोविरोधप्रसक्तेः । तत्रारोग्यम् - भावनीरुक्ता मोक्ष इति