________________
पञ्चसूत्रोपनिषद्
उत्तमानुष्ठानमिदं सुकृताऽऽसेवनम् अन्यजीवसुकृतानुमोदनाऽपि महाफलदायिनी, भावनीयमत्र रथकारमृगबलदेवमुनिज्ञातम् ।
सूत्र : एवमेअं सम्मं पढमाणस्स सुणमाणस्स अणुप्पेहमाणस्स सिढिलीभवंति परिहायंति खिज्जंति असुहकम्माणुबंधा |
७७
अथैतत्सूत्रस्य सम्यक्पठनादेरद्भुतं फलमाह - सम्यक् संवेगेन हृदयं भृत्वा, संवेगः - चतुःशरणवक्तव्यतोक्तार्हदादितत्तद्विशेषणगोंचरा भावसारा श्रद्धाऽऽदरश्च । (२) दुष्कृतगहार्यां संवेगः - हृदयाद्दुष्कृतशल्यान्युद्धृत्य दुष्कृतकारिणं स्वात्मानं प्रति जुगुप्साभावः यथा - अहोऽधमोऽस्म्यहम्, अहो दुष्ठु कृतं मया - इत्यादि । (३) सुकृतासेवने संवेगः - शरणाद्युपायत्रयावाप्तिर्मम सञ्जातातेति धन्योऽस्म्यहम् - इत्यादि ।
=
1
एवं संवेगाय प्रधानभावं समर्प्य सूत्रपठनश्रवण- स्मरणानुचिन्तनप्रवृत्तानां पूर्वबद्धाशुभकर्मरसस्तदनुबन्धश्च मन्दीभवति । परिहीयन्ते तत्कर्मस्थितयः, अल्पीभवन्ति तत्प्रदेशाः । विशिष्टप्रशस्ताध्यवसायसदभ्यासयोगेन निर्मूलमप्युन्मूल्यन्तेऽशुभकर्मानुबन्धाः । ते चात्मनि व्यक्ता इतरा वा तीव्रसङ्क्लेशसंस्काराः । तेषु हेतुभावमुपयान्ति सङ्क्लिष्टतराणि कर्माणि । तान्येव च भवविटपिमूलानि । एतद्विषोपशमे महामन्त्रोपमः प्रकृतसूत्रपाठः । एष एव महौषधसङ्काशस्संसाररोगोपशमे। एष एव च परमरसायनमजरामरत्वावाप्तये । एतत्पठनश्रवणमनननिदिध्यासनान्युल्लासयन्ता शुभाध्यवसायान्, चूर्णयन्त्यशुभानुबन्धान् शोषयन्ति संसारसागरम् ।
|