________________
७६
पञ्चसूत्रोपनिषद् हिआहिआणं अभिन्ने सिआ, अहिअनिवित्ते सिआ, हिअपवित्ते सिआ, आराहगे सिआ, उचिअपडिवत्तीए सव्वसत्ताणं सहिअंति। इच्छामि सुकडं इच्छामि सुकडं, इच्छामि सुकडं | ___ नाहमुक्तरीत्योरीकुर्वेऽर्हदादीन् । नाप्यभिलषाम्येतदुरीकारं भावसारम् । अतो मूढोऽहम्, पापश्च, आवृतोऽस्म्यहं मोहादिपाप्मभिः समन्ततः । अनादिः खलु मम संसारः | अनादिकालतोऽभ्यस्तो मम मोहः । भावितस्तेन मदात्मनः प्रत्येकः प्रदेशः, लशुनगन्धभावितवस्त्र-सत्कप्रत्येकतन्तुवत् । रागद्वेषमोहवासनावासितं विवर्तते मन्मनः | उन्मत्तोऽस्मि खल्वहं तद्भावनाभावितत्वात् । तत्त्वानभिज्ञोऽस्म्यहम् । न जानाम्यहं वास्तवं मदात्महितम्, नाप्यहितम् । क्व खलु मम पारमार्थिकसुकृतानुमोदनावकाशोऽपि । किन्त्वभिलषामि शरणमर्हतः । ईहे हितेतराभिज्ञताम् । निवर्ते मिथ्यात्वाविरतिकषाययोगलक्षणेभ्य आश्रवेभ्यः । प्रवर्ते सद्दर्शनादियोगेषु । भवाम्यहं मोक्षमार्गाऽऽराधकः । करोमि तन्निर्देशकार्हदुपासनाम् । विदधे सद्गुरुशुश्रूषाम् । धारयामि भावप्रतिबन्धं जिनाज्ञायाम् | सेवे सुकृतानि । भवामि सर्वत्राऽप्युचितवृत्तिविभूषितः । तदेवंरीत्याऽहमिच्छामि सुकृतम्, इच्छामि सुकृतम्, इच्छामि
सुकृतम् ।
अत्र वारत्रयभणनेऽयं हेतुः - (१) मनोवाक्काययोगत्रयेणाप्यभीष्टं सुकृतम् । (२) भूत-भावि-वर्त्तमानकालत्रितयगोचरमिप्सितमस्ति सुकृतम् । (३) सुकृतानुमोदनाऽपि करण-कारणा-ऽनुमोदनरूपप्रकारत्रयेणेहिता ।