________________
७५
पञ्चसूत्रोपनिषद् - सूत्र : अचिंतसत्तिजुत्ता हि ते भगवंतो, वीअरागा सव्वण्णू परमकल्लाणा परमकल्लाणहेऊ सत्ताणं ।। ..
अंकल्पनीय सामर्थ्यशालिनस्तेऽर्हदादयो भगवन्तः, वीतरागाः सर्वज्ञाश्च । न ह्यर्हच्छक्तिर्गम्या परेषाम्, अगम्यत्वात्, अमेयत्वात्, अनुपमत्वाच्च । श्रेष्ठकल्याणस्वरूपा ह्यर्हन्तः । परमात्मशरणं नाम त्रिविधसंसारतापविमुक्तिरनन्तकल्याणाभियानं च । ___ आचार्यादयोऽप्यवाप्तकैवल्या मुख्यतया सर्वज्ञा वीतरागाश्च । तदन्येऽपि महाविरागा बहुश्रुताश्च सर्वज्ञवीतरागवदालम्बनीयाः, परमकल्याणरूपत्वादेव, तद्धेतुभावाच्च । न हि तत्कल्याणमस्ति जगति यन्न प्राप्यते परमेष्ठिसमुपासनतः । प्रकाश्यते तदुपदेशेन मुक्तिमार्गः | उज्जागरयति तदर्शनं कल्याणोपायान् । वितरति श्रेयस्तत्स्मरणम् । प्रापयति महाकल्याणं तदालम्बनम् । अत एतेऽचिन्त्यसामर्थ्यशालिनः । एतदेवाभिप्रेत्याऽऽहुः सुधर्मस्वामिनः - अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं बोहिदयाणं धम्मदयाणं जिणाणं जावयाणं तिन्नाणं तारयाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं - इति ।
विहितमेतदेव विधेयं सुलसयाऽपि भगवच्छरणोरीकरणरूपम् - एष एव मदाधारः, एष एव निरीक्षणीयश्चिन्तनीय उपासनीयश्च । न ब्रह्मादयो देवताः सेवनीयाः, नाऽपि शब्दादयो विषयाः - इत्यादि । एतद्विभावनेनैवोपार्जितमनयां तीर्थकृन्नाम कर्म ।
सूत्र : मूढे अम्हि पावे, अणाइमोहवासिए, अणभिन्ने भावओ,