________________
७४
पञ्चसूत्रोपनिषद् सम्भवेत्, तदा कथममूढलक्ष्योऽपि भगवान् धर्मतीर्थस्थापने प्रवर्तेत ? अपि च पञ्चाचारवर्ती वीर्याचारोऽपि पुरुषार्थाऽऽवश्यकतां प्रज्ञापयति । न ह्येतद्विनाऽऽचारचतुष्टये निर्दोषत्वप्रबलत्वादिविशिष्टा सम्भव्याराधनेति यतितव्यं तत्र |
सविषयेयं प्रार्थनेति ध्येयम् । अतो विद्यतेऽस्यालम्बनभूतः प्रार्थनीयः । स च पारमार्थिको महानुभावत्वाद्युपेतः पुरुषः । अतो नैतत्प्रार्थनानिष्फलत्वसम्भवः । प्रार्थनीयस्य लोकोत्तरगुणगणोपेतत्वेन प्रार्थकहृदयप्रवीभावापादकत्वात्, स्वाश्रयगुणोपादेयमतिजनकत्वात्, विशुद्धाध्यवसायजनकत्वाच्च । एवञ्च तमाश्रित्य कृता प्रार्थना । सफलैव, अवन्ध्यनिबन्धनत्वाद् गुणसन्दोहस्य । __ प्रार्थनाऽप्यनुमोदनाया वितरत्यनुमोदनासामर्थ्यम्, ततोऽपि क्रमेणाऽऽसाद्यते निरतिचारं चारित्रम् । प्राप्यत आनुपूर्व्याऽजरामरत्वम् । अवन्ध्यं बीजमुपादेयमतिसचिवाऽभिलाषा धर्मानुष्ठानस्य । भावनीयमत्र नागके तुवृत्तान्तम् । सुवर्णसिद्धिरसतुल्या हि प्रार्थनेत्यत्र निष्कर्षः |
पारमार्थिका सुकृतानुमोदनाऽपि दुर्घटा मिथ्यात्वमान्द्यमन्तरेण । तदर्थं कर्तव्यः शुभभावोल्लासः । सोऽपि सम्भवत्यर्हदादिगोचरविशिष्टबहुमानतः । एवञ्च शुभाध्यवसायप्रकर्षतः सम्भवति मिथ्यात्वमान्द्यम् । ततश्चोल्लसति हृदये तात्त्विकाऽनुमोदना । स एष भगवदनुभावः, कर्णधारोऽपि प्रापणीयप्राप्तौ ध्रुवतारकाद्यनुभावं मन्यते, तथा प्रकृतेऽपि योज्यम । अर्हदाद्यालम्बनाभावत एव जीवस्य संसारसागरेऽजनि बम्भ्रमणम् ।
17. I