________________
पञ्चसूत्रोपनिषद्
७३
दुष्प्रवृत्तिसन्तताभ्यासप्ररूढकुवासना तत्प्रतिपक्षतपोदानादिधर्मपुरुषार्थमात्रशक्यक्षयेति दृढमवधारणीयम् । स्वच्छन्दमाहारादिप्रवृत्तेस्तु प्रत्युत तत्पोष एव ।
(४) तथा धर्मप्रवृत्तिरपि यथा निरतिचारा स्यात्तथा यतितव्यम । एवमेवोत्तरधर्मप्रवृत्तितद्गुणस्थानकयोः सम्भवात्, परम्परया वीतरागत्वावाप्तेश्च । अतः सत्त्वसारेण मनसा यतितव्यमत्र ।
चतुष्टयं ह्यात्महितसाधनम् - जिनाज्ञागोचरोपादेयमतिः, हृदयनैर्मल्यम्, पुरुषार्थप्राबल्यं सत्त्वं च । एतच्चतुष्काधिगमार्थं सम्यग् विधिपालने, विशुद्धाध्यवसाये, यथाशक्तिक्रियापालने, निरतिचारतन्निर्वाहे च यतनीयम् ।
जिनाज्ञाप्रतिबन्धतो हि भवति जिनशरणस्वीकारः । ततोऽपि तद्विषयपरमार्थतारकत्वादिगुणगणप्रतिपत्तिः । तदुक्तमेव तत्त्वम्, तदभिहितो मार्ग एव सिद्धिसञ्चरः इति भावसारं मन्तव्यं भवति प्रोक्तप्रतिपत्तिप्रभावतः । ततश्चावश्यं भवत्यनाद्यहङ्कारनिकारः । स एष सर्वोऽपि जिनाज्ञाप्रतिबन्धपरिणामः, अतस्तत्राऽऽदृतव्यम् ।
भर्त्तव्यं हृदयं शुभाध्यवसायतः । सन्ततमपि धारणीयं परिणामपावित्र्यम्, विरेचनीयं भावमालिन्यम्, क्षपितव्याः कुसंस्काराः । पोषणीयाः सुसंस्काराः । एवञ्चैतदभ्यासपरिपाके प्राप्यते परमः प्रशस्ताध्यवसायः ।
तीर्थकृत्स्थापितं धर्मतीर्थमपि पुरुषार्थसत्त्वयोर्माहात्म्यज्ञापकम् । यदि तु काल-स्वभाव - पूर्वकर्म-भवितव्यतामात्रत एवात्मोद्धारः