SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ७२ पञ्चसूत्रोपनिषद् तीव्रमिथ्यात्वकर्मविनाशेन सम्यक् शुद्धाशयाऽस्तु, मा भूदस्यां पौद्गलिकाऽऽशंसादम्भादिकृतं कालुष्यम् । अस्तु चैतद्गोचरः सम्यक् स्वीकारः । मा भूदस्यां स्खलनात्मका अतिचाराश्चेति । __ नानुमोदनमात्रे, अपि तु यंत्र कुत्रचिदपि धर्मानुष्ठाने प्रोक्तान्यङ्गान्यावश्यकानि, तद्यथा - (१) शास्त्रोक्तविध्यनुपालनम् । आप्तवचविषयः प्रबलः सापेक्षभाव आवश्यकः, तद्यथा - मया तद्वचनानुसारेणैवाराधनायां प्रवर्त्तितव्यं, नोपेक्षणीयमेतदिति । (२) विशुद्धोऽध्यवसायः, हृदये पुनितपरिणामपरम्पराऽविच्छित्तिरित्यर्थः । (३) यथाशक्ति सम्यक क्रिया, यथा समभावाऽऽसादनार्थं विधिपुरस्सरं सामायिकानुष्ठाने प्रवृत्तिः । (४) तत्प्रवृत्त्या निरतिचारं पालनम् । ____ न ह्येतच्चतुष्टयगतान्यतमस्याप्यपाये साध्यसिद्धिः । (१) विध्याग्रहो हि जिनवचनसापेक्षभावज्ञापकः, जिनवचस्तु प्रतिपदमपि पुरस्कार्यमेव मुमुक्षुणा | जिनाज्ञैव संसारसागरोत्तरणोपाय इति । अन्यथा तु स्वच्छन्दभावः पातयति बलादप्यज्ञानचेष्टायाम्, ततश्च कुतो भवाभावसम्भवः ? (२) परिहार्या विषयतृष्णा, हातव्या कामक्रोधमदपारुष्येादयो दोषाः, हृदयकालुष्याऽऽपादकत्वात् । एतदपरिहारेण हीयते जिनाज्ञानुरागः । अत उक्तदोषपरिहारेण यतितव्यं जिनाज्ञानुपालने । (३) तथा परिहर्त्तव्यः प्रमादभावः । उद्यन्तव्यं धर्मप्रवृत्तौ अन्यथा पापनिपातध्रौव्यात् । ततोऽपि पापे प्रवर्त्तमानस्य भवेत्परिणामकालुष्यम् । अनादिकालीनाऽऽहारादिसञ्ज्ञाप्रयुक्त
SR No.022074
Book TitlePanchsutrop Nishad
Original Sutra AuthorN/A
AuthorBhuvanbhanusuri, Kalyanbodhisuri
PublisherJinshasan Aradhana Trust
Publication Year2010
Total Pages324
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy