________________
पञ्चसूत्रोपनिषद्
७१ नैतन्मात्रम्, अपि तु सर्वेऽपि देवाः, सर्वेऽपि जीवाः, ये मुमुक्षवः, निकटमुक्तयः, चरमपुद्गलावर्त्तवर्तिन, विशुद्धाशयाश्च, तेषामप्यनुमोदयेऽहं मार्गसाधनयोगान् अत्र मार्गः सम्यग्दर्शनज्ञानचारित्रात्मकः सिद्धिसञ्चरः । तत्साधनभूता योगाः - मार्गानुसारिणामादिधार्मिकाणामपुनर्बन्धकानामाद्ययोगदृष्टिचतुष्टयवर्तिनां च जीवानां माध्यस्थ्यपुरस्सरं कुशलप्रवृत्तयः देवदर्शन - व्रतनियमसेवनादियोगानां पूर्वसेवा, न्यायसम्पन्नत्वादि-मार्गानुसारिगुणाश्च । एभिर्हि प्राप्यन्ते सद्दर्शनादयः । एतद्गुणापेक्षयैव मिथ्यादृशोऽपि गुणस्थानकमभिहितम् । एवमेव चास्य सान्वर्थभावसम्पादनमिति विभावनीयम् । अत एवानुमोदनीयता प्रोक्तगुणानाम्, मोक्षसाधकत्वात् । मोक्षमार्गस्योपयोगितापेक्षया जिनवचनाविरोधापेक्षया च गुणा एवैतेऽनुमोदनीयाः, न तु मिथ्यादृगिति ध्येयम् । . ___ अथ विमुच्याभिनिवेशम्, सन्त्यज्यातत्त्वकल्पनाम्, क्रियते प्रणिधानविशुद्धिः । प्रणिधानं कर्त्तव्यनिश्चयः, तदभिलाषश्च, उक्तञ्च - विशुद्धभावनासारं, तदर्थार्पितमानसम् । यथाशक्तिक्रियालिङ्ग, प्रणिधानं मुनिर्जगौ - इति ।
अत आह -
सूत्र : होउ मे एसा अणुमोअणा सम्मं विहिपुविआ सम्म सुद्धासया, सम्म पडिवत्तिजुआ सम्मं निरइआरा, परमगुणजुत्तअरहंता-सामत्थओ ।
श्रेष्ठैर्लोकोत्तरैर्गुणैर्युक्तानामर्हत्सिद्धादीनामनुभावेन प्रोक्ता मेऽनुमोदनाऽऽगमानुसारिणी सद्विधिसचिवा भूयात् ।