________________
पञ्चसूत्रोपनिषद् ___ अपि चास्तु मम तद्गोचरः सद्भावातिशयः बहुमानश्च । अतोऽत्यन्तहृदयोल्लासेन समं कुर्यामहमुक्तयाचनम् । इत एव भवतु मम मुक्तिबीजावाप्तिः - इत्यपि प्रार्थनीयम् ।
प्रार्थना ह्यापादयति प्रवीभावम् । कारयति परमपुरुषगोचरं बहुमानम् । तनोति शुभाध्यवसायोल्लासम् । सुसंस्कारैः समृद्धीविधत्ते जीवम् । नाशयति मिथ्यात्वादिकं कर्म । प्रापयति मुक्तिबीजम् । तच्च भवति सुवर्णकलशवत् सानुबन्धं शुभकर्म । अनुबन्धः परम्परा कुशलस्य । यथा हि भग्नोऽपि सुवर्णघटो न जहाति सुवर्णभावम्, एवं प्रार्थनयाऽवाप्तं शुभं कर्म विपाकोदयतः क्षीणमपि जनयत्यपरं शुभं कर्म, सानुबन्धत्वादेव | __ प्रकृतेऽपि करणीयं प्रणिधानम्, यथा - सदाप्यस्तु मे दुष्कृतगर्दा, तदकरणनियमः तद्गोचरो बहुमानभावः, उत्कटा च भवतु ममैषा प्रार्थनेति । ___ नन्वस्तु देवादिसंयोगयाचना, प्रार्थनायाचनं तु न सङ्गतिमङ्गतीति चेत् ? न, महाप्रभावत्वात्तस्याः, अचिन्त्यानुभावार्हद्गोचरत्वात्, इष्टसिद्धिनिदानत्वात्, धनादियाचनातिशायित्वात्, आत्मविशुद्धिप्रयोजनत्वात्, निराशंसभावबीजत्वाच्च । ___ आवश्यको दुष्कृतगर्हा-देवगुरुसंयोगप्रार्थना चेति त्रितयगोचरो बहुमानभावः । तृणायैव मन्तव्यमुक्तत्रितयस्य पुरस्ताद् जगत् । एतद्धि जनयति मुक्तिबीजसाधकं शुभानुबन्धम् ।
अर्हदादिसंयोगस्तत्सेवयैव सफलीभवति, अतः कर्त्तव्यैषा । तदन्यसेवया हि जीवेन निर्मितं स्वदुःखम्, अतः -