________________
___६५
पञ्चसूत्रोपनिषद् गोचरहेयबुद्ध्या सम्पाद्यते । ग्रन्थिभेदेन तथा पुनरपि न बन्धविषयमुपयात्युत्कृष्टा कर्मस्थितिः, एवं तदबन्धरूपोऽस्तु मेऽकरणनियमः । इति सामर्थ्यमित्याहुवृत्तिकाराः, अर्थापत्तिगम्यमिदमिति तदर्थः । प्रकरणमेतद्दुष्कृतगर्हासत्कम्, अतोऽकरणनियमो दुष्कृतसम्बन्धी प्रत्येय इति भावः ।...
एतत् - दुष्कृतगर्हातदकरणनियमलक्षणं द्वयम्, चतुःशरणगमनदुष्कृतगर्हारूपं वा युगं मम बहुमतम् । इच्छाम्येतदर्थं त्रिलोकनाथस्यार्हतः कल्याणमित्रभूतानां गुरूणां चानुशास्तिकम्, तस्या एवोक्तचतुःशरणगमनादिसर्वाराधनाया बीजभूतत्वात् ।
ननु प्रथमं गुर्वनुशास्त्यभिलाषो न्याय्यः, साक्षादुपकारित्वाद् गुरोरिति चेत् ? न, गुणाधिकत्वादर्हतः, उक्ताऽऽराधनाया मूलोपदेशकत्वाच्च । अधिकगुणाधिगमार्थमधिकगुणवद्बहुमानार्थं च यतनीयं तत्त्वानुगामिभिः । एवमेव तत्त्वानुगामित्वोपपत्तेरिति भावनीयम् । प्रणिध्यन्तरमाह -
सूत्र : होउ मे एएहिं संजोगो, होउ मे एसा सुपत्थणा | होउ मे ईत्थ बहुमाणो, होउ मे इओ मुक्खबीअं ति ।।
न हि हितशिक्षासमागमद्वयप्रार्थनमिदं वाङ्मात्रम् अपि तु प्रोक्तद्वयप्राप्त्यर्थं प्रयत्नशीलोऽहं भूयामित्येतत्प्रयोजनतस्तत्प्रवृत्तिः, अत एव तेन सहितमेवोक्तनिर्णयोऽपि कर्त्तव्यः । न ह्यात्मसामर्थ्यमात्रतोऽर्हदादिसमागमः, अपि तु देवगुरुकृपया, अतस्तदग्रतो भावसारं प्रार्थनीयमिदम् । यथा - अस्तु मे सन्ततमपि त्वत्संयोगः-इति । परमपुरुषमाश्रित्य कृता प्रार्थनाऽपि खलु जगति. दुर्लभा निरुपमा निष्पर्यन्तोपकारका च ।