________________
पञ्चसूत्रोपनिषद् पापप्रवृत्तौ स्वरसातिशयम् । ततश्च कथञ्चित्सत्यपि तत्सेवने न तथाविधसङ्क्लिष्टाध्यवसायप्रसूतिः । ___न चैवं पापप्रवृत्तितद्गर्हाद्वयस्याभीक्ष्णं भावाद्दम्भो धृष्टता वा स्यादिति वाच्यम्, संसारवासेऽशक्यपरिहाराणामपि दोषाणां गर्हणस्यावश्यकत्वात्, तदभावे तद्गोचरहेयबुद्धेरसम्भवात् । अतो वीतरागता प्राप्तिं यावद्यथा मुनिरपि गर्हति रागादिभावम्, तथा गृहिणाऽपि कर्त्तव्यमेव सावद्यप्रवृत्तिगर्हणम् । न चैतद्दम्भरूपम्, शुद्धभावप्रयुक्तत्वात् । ज्ञापकञ्चात्र भरतचक्रिवृत्तम्, येन सावद्यगर्हाद्याराधनाभ्यासेनाऽऽसादितं कैवल्यम् ।
दुष्कृतगर्हानुभावेनासाद्यते प्रवीभावः । अतो हि स्वैरताप्रतिबन्धः । ततश्च सुसम्भवा गुणपरिणत्यात्मनि । अयोग्या भवति कठोरत्वकलङ्किता मृत्तिका घटभावाऽऽपादनार्थम् । एवं गुणपरिणत्यर्थिणा कर्त्तव्योऽहङ्कारनिकारः | तत्र च साधनभावं भजते दुष्कृतगर्हेति । - उन्मूलनीयं पापप्रवृत्तिबीजम्, यथा परस्त्रीदर्शनादौ बीजं चक्षुर्लोलत्वादि । तदुपशमे विहितेऽसम्भवः पापप्रवृत्तेः, क्रोधोपशमे कृते परुषवचनोच्चाराद्यसम्भववत् । भावनीयं दुष्कृतगर्हणेऽतिमुक्तमुनिवृत्तं कुमारपालपूर्वभववृत्तं च ।
सूत्र : होउ मे एसा सम्म गरिहा | होउ मे अकरणनिअमो। बहुमयं मम एयं ति इच्छामि अणुस]ि अरहंताणं भगवंताणं गुरुणं कल्लाणमित्ताणं ति ।।
गर्हासचिवमेव चिन्तनीयं यथा - भवतु ममैषा गर्दा सम्यक्, भावसारं विधिवदस्त्वेषेत्याशयः । भावसारता चास्यां दुष्कृत