________________
पञ्चसूत्रोपनिषद्
६७
सूत्र : पत्तेसु एएसु अहं सेवारिहे सिआ आणारिहे सिआ पडिवत्तिजुत्ते सिआ निरइआरपारगे सिआ ।
तारकदेवाधिदेवेषु सद्गुरुषु च प्राप्तेषु सत्सु भवाम्यहं तदुपासनायोग्यः, न हि तद्भावाभावे सम्भवत्युत्तमपुरुषसेवा । योग्यो हि सेवको भवति सेवनीयाज्ञापात्रम् । अतो भवाम्यहं कल्याणकारिण्यास्तदाज्ञायाः पात्रम् । तदाज्ञापालनं हि सङ्केतः शिवसुन्दर्याः । अस्तु मे तत्प्रतिपत्तिः । भवतु मे तद्विषया भक्तिः । भवतु मम निरतिचारं तदाज्ञानुपालनम् । एतदर्थं ममैषा बहुमानगर्भिता प्रार्थना ।
न ह्यन्तरेण सेवां भक्तिं च सम्यगाज्ञास्वीकारः समुपसम्पन्नता च सम्भवति । तत्स्वीकारादिं विना च निरतिचारमाज्ञा॒पारगमनं दुर्घटम् । अत एवोक्त क्रमोपन्यास इति भावनीयम् । एतेनैव क्रमेण तीर्णा शय्यंभवादयः । एतदनादरेणैव निमज्जिता कूलवालकादयः, अतोऽर्हतामधिगम्य सेवनीया अर्हदादयः ।
(३) सुकृताऽऽ सेवनम्
पापप्रतिघात-गुणबीजाधानसत्कं तृतीयमुपायमाह सूत्र : संविग्गो जहासत्तीए सेवेमि सुकडं, अणुमोएमि सव्वेसि अरहंताणं अणुट्ठाणं, सव्वेसिं सिद्धाणं सिद्धभावं ।
अथाहं संविज्ञः सन् सेवे सुकृतम् । संविग्नः संवेगसम्पन्नो मोक्षमार्गार्थीति यावत् । तथऽनुमोदये सर्वेषामर्हदादीनामुत्तमं धर्मानुष्ठानम्, सिद्धानां सिद्धावस्थाम् ।