________________
पञ्चसूत्रोपनिषद् सुहुमं वा बायरं वा, मणेण वा, वायाए वा, काएण वा, कयं वा, काराविअं वा, अणुमोइअं वा, रागेण वा दोसेण वा मोहेण वा, इत्थ वा जम्मे जम्मंतरेसु वा, गरहिअमेअं, दुक्कडमेअं, उज्झिअव्वमेअं विआणि मए कल्लाणमित्तगुरुभगवंतवयणाओ । एवमेअंति रोइअं सद्धाए । अरिहंतसिद्धसमक्खं गरहामि अहमिणं दुःकडमेअं, उज्झियव्वमेअं । इत्थ मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं, मिच्छा मि दुक्कडं |
अत्राहदाशातनाविरोधाविनयावर्णवादाज्ञावगणनरूपं तन्मूर्तिचैत्यसिद्धान्तादिविरोधादिलक्षणमश्रद्धाऽशुद्धप्ररूपणात्मकं वा तम्प्रति विरुद्धमाचरणमुच्यते । अनेनैव भ्रान्ता लक्ष्मणाऽऽर्याऽष्टशतकोटाकोटिसागरोपमकालं यावत् संसारम् । ___ सिद्धं प्रति विपरीतमाचरणम्, यथा - न विद्यत एव सिद्धः । चेदस्ति तदा किन्नामाऽस्य चैतन्यम् ? - इत्यादिकुयुक्तिप्रपञ्चनम्, भोजनाद्यभावे कुतः सिद्धस्य सुखम् - इत्याद्यसदारेकाकरणम्, तन्मूर्त्याद्याशातनादिकं च । ___ न च वेत्त्येतत्कृत्, यथा - किं फलोऽन्नादिसम्भोगः ? बुभुक्षादिनिवृत्तये । तन्निवृत्तेः फलं किं स्यात् ? स्वास्थ्यं तेषां तु तत् सदा ।। अस्वस्थस्येव भैषज्यं स्वस्थस्य तु न दीयते । अवाप्तस्वास्थ्यकोटीनां भोगोऽन्नादेरपार्थकः || अकिञ्चित्करकं ज्ञेयं मोहाभावाद्रताद्यपि । तेषां कण्ड्वाद्यभावेन हन्त कण्डूयनादिवत् || अपरायत्तमौत्सुक्य - रहितं निष्प्रतिक्रियम् । सुखं स्वाभाविकं तत्र नित्यं भयविवर्जितम् ।। परमानन्दरूपं