________________
पञ्चसूत्रोपनिषद् पुष्पितं फलितं च सर्वज्ञोक्तशुद्धधर्माभावात् । दुःखमागच्छति कर्मोदयात्, न ह्येतत् सहज आत्मस्वभावः । कर्मजनकं तु हिंसादिपापम् । कर्मवनं दह्यते सर्वज्ञोदिताहिंसादिधर्मानलेन । तेन च भस्मसात्कृते तस्मिन्न सम्भवति दुःखोदयः । भवत्यात्मा स्फटिकवन्निर्मलः | प्रादुर्भवत्यनन्तज्ञानादिमयं ज्योतिः ।
तथैष साधकः सिद्धभावस्य, तत्सम्पादकत्वात् । न हि धर्माभावे सिद्धिः, तद्भावे चावश्यं व्रज्या तां प्रति । धर्मसाधनं यथा यथा प्रवर्त्तते, तथा तथा जीवस्य वीतरागदशाऽऽसांयोगिकसुखशुद्धज्ञानदृष्टिप्रभृतिरासन्नीभवति । तदेवंविधः केवलिप्रज्ञप्तो धर्मो यावज्जीवमस्तु मे शरणम् ।
चत्वार्यप्येतानि शरणानि सम्बद्धानि मिथः एकार्थसाधकत्वात् । तथाहि वीतरागोऽर्हन्, तद्भावोपदेष्टा च, सिद्धोऽपि वीतरागः, तद्भावसाधकः साधुः, तद्भावोपायभूतश्च धर्मः । अतो नैतच्छरणचतुष्टयस्वीकारेऽन्योऽन्यविरोधः ।
पापप्रतिघातार्थं चतुःशरणगमनानन्तरं कर्त्तव्या दुष्कृतगर्दा, तामेव व्यनक्ति -
सूत्र : सरणमुवगओ अ एएसिं गरहामि दुक्कडं । जंणं अरहंतेसु वा, सिद्धेसु व, आयरिएसु वा, उवज्झाएसु वा, साहुसु वा, साहुणीसु वा, अन्नेसु वा धम्मठाणेसु माणणिज्जेसु पूअणिज्जेसु, तहा माइसु वा, पिइसु वा, बंधुसु वा मित्तेसु वा, उवयारीसु वा, ओहेण वा जीवेसु, मग्गट्ठिएसु अमग्गट्ठिएसु, मग्गसाहणेसु अमग्गसाहणेसु, जं किंचि वितहमायरिअं अणायरिअव् अणिच्छिअव्वं पावं पावाणुबंधि,