________________
पञ्चसूत्रोपनिषद् व्यन्तराश्च निर्जराः, मनुजाः - पुरुषविद्याधराः । एतद्विशेषणमापादयत्यत्यन्तं बहुमानं धर्मगोचरम्, ऐहिकसमृद्धिप्रदश्रेष्ठ्यादिभ्योऽप्यभ्यर्हतरत्वज्ञापकत्वाद्धर्मस्य, देवादीनामपि पूज्यत्वात् तस्य ।
तथैष मोहतिमिरांशुमाली, मोहः सदसदादिविवेकविरहः | अनेनोदेति मूढावस्थाऽऽत्मनः, या प्रतिबध्नाति तत्त्वदर्शनम् । एवञ्चान्धकारतुल्यो मोहः । सूर्यस्थानीयः श्रुतचारित्रात्मको धर्मोऽपनयत्येनम् । धर्मशरणानुभाव एष यदतो विलीयते मोहः ।
किञ्चैष रागद्वेषविषपरममन्त्रः, यथा विषेण प्राणिनां मृत्यु स्तथा रागादिना भावप्राणानाम्, एतेनैव कर्मबन्धप्रयोजकभावेन प्रतिभवं क्रियत आत्मा मृत्युगोचरः । अतो दारुणं हालाहलं रागद्वेषौ । हन्त्येतौ धर्मः, अतो मन्त्रतुल्य एषः ।
एतत्त्वत्रावधेयम् - विषयाशंसापरिहारपुरस्सरं कर्त्तव्यो धर्मः, तदाशंसाया रागविषोपबृंहकत्वात् । रागद्वेषताण्डवात्मके चेष्टितेऽपि नानुरक्तव्यम् । कथन्नाम रागद्वेषविषमुपशमयेन्मम धर्म इति भावनीयम् ।
तथैष धर्मः सर्वज्ञोक्ततया सकंलकल्याणानां हेतुः, देवमनुजसद्गतियशस्सातेभ्य आरभ्य आ मुक्तिं सकलकुशलनिबन्धनत्वात्तस्य । ज्ञापयत्येतद्विशेषणं यन्न हिंसादयः कल्याणनिबन्धनानि । अतोऽनन्यशरणतया गृहीतव्यं धर्मशरणम् ।
स एव विशेष्यते - कर्मवनविभावसुः, कर्मवनस्य ज्ञानावरणीयादिसमुदयरूपस्य विभावसुरिव अग्निरिव, तद्दाहकत्वेन । कर्मवने हि निष्पद्यन्ते दुःखफलानि । एतद्वनं