________________
पञ्चसूत्रोपनिषद् न यस्मिन् भवेच्चित्तव्याक्षेपः । यद्वा समस्तेऽपि क्रियामार्गे प्रशस्तैकाग्रं ध्यानम, तद्वन्तश्च श्रमणाः । अध्ययनम् - वाचनापृच्छनापरावर्त्तनाऽनुप्रेक्षा धर्मकथात्मको ज्ञानयोगः, तत्परायणा भवन्त्येते । आस्वादयन्ति च ध्यानाध्ययनानुभावादिहैव मुक्तिसौख्यम् ।
तथैते श्रमणा विशुद्ध्यमानभावाः । यतः शास्त्रविहित समितिगुप्तिस्वाध्यायावश्यकादीनि धर्मकृत्यान्युत्तरोत्तरं विशोधयन्त्यात्माध्यवसायम्, तथातत्स्वाभाव्यात्, हिंसादिप्रवृत्तेर्मालिन्यापादनस्वाभाव्यवत् । जिनाज्ञाविहितयोगा हि पानीयस्थानीया प्रक्षालयन्त्यनन्तकालीनं कामक्रोधादिलक्षणं भावमलम् । न ह्यन्यभवे सम्भवत्येतत्प्रक्षालनमिति यतितव्यं तत्र । धन्याश्च निर्ग्रन्थगुरवः, यैः सार्थकीकृतं स्वजीवनमुक्तविशोधनैः । ___ क एवम्भूताः ? इत्याह - सम्यग्दर्शनादिभिः सिद्धिं साधयन्तीति साधवः - मुनयः, ते यावज्जीवं सन्तु मे शरणम् - आश्रयः |
सूत्र : तहा सुरासुरमणुअपूइओ, मोहतिमिरंसुमाली, रागदोसविसपरममंतो, हेउ सयलकल्लाणाणं, कम्मवणविहावसू, साहगो सिद्धभावस्स, केवलिपण्णतो धम्मो जावज्जीवं मे भगवं सरणं ।
तथा - न केवलं साधवः शरणम्, किन्तु केवलिप्रज्ञप्तो धर्म इति सम्बन्धः । स च सुरासुरमनुजपूजितः । तत्र सुराः - ज्योतिष्का वैमानिकाश्च देवाः, असुराः - भवनपतयो