________________
५८
पञ्चसूत्रोपनिषद् ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां ज्ञेयम्, तदवगन्तारः परिपालकाश्च भवन्ति श्रमणा इति हृदयम् ।
एत एव विशेष्यन्ते - परोपकारनिरताः उपदिशन्त्येतेऽवसरे निष्पापजीवनं भव्यजीवेभ्यः, त्याजयन्ति पापानि | उत्साहयन्ति गुणाधिगमार्थम् । वितरन्ति योग्यजीवेभ्यः श्रामण्यं च । स एष उपकारः स्वपरौ प्रतीत्यैकान्तिकः, शुद्धत्वात्, अपकारलेशरहितत्वात् । आत्यन्तिकश्च, उपकारान्तर-निरपेक्षत्वात्, दोषगुणत्यागादानक्रमेणास्यानन्तसुखप्रयोजकतया कृतकृत्यत्वनिदानत्वात् । विभावनीयमत्र शास्त्रोदितं प्रदेशीराजज्ञातम्, यः प्राग् नास्तिकोऽपि प्रतिबोधितः सम्यक् श्रीकेशिस्वामिना । जगाम जिनाज्ञाराधनपुरस्सरं देवभूयम् । भविष्यति क्रमेणावाप्य मुक्तिं कृतकृत्यः ।
तथैते पद्मादिनिदर्शनाः पङ्कोत्पत्तिजलस्थितिभावेऽपि तदस्पर्शनेन यथा पद्मादीनि । एवमेव कामेन जनिता भोगेन च वृद्धिमुपागताः श्रमणभगवन्त तदुभयस्पर्शमन्तरेणैव जीवन्ति योगिजीवनम् । आदिना स्वच्छस्वादुशान्तशरदृतु-कालीनसरोवरवत् स्वच्छा एते प्रशमप्रभावेन, मधुराः कारुण्येन, अत एतच्छरणोरीकारेणावाप्नोम्यहमपि पद्मादिसादृश्यतामिति भावनीयम् ।
किञ्चैते ध्यानाध्ययनसङ्गताः, तत्र धर्मध्यानमाज्ञापायविपाकसंस्थानानुचिन्तनात्मकम् | शुक्लध्यानं द्रव्यपर्यायान्तरगोचरचित्तानिरोधरूपं मैत्र्यादिभावना-चतुष्केऽनित्यत्वादिद्वादशभावनासन्होदे वान्यतमगोचरे प्रशस्तैकाग्रविचारात्मकम्,