________________
५७
पञ्चसूत्रोपनिषद् एते । गभीरा हि भवत्येषां चित्तवृत्तिः, अपेततुच्छाध्यवसायत्वात् । नातस्ते रागादिसङ्क्लेशगोचरा भवन्ति । नापि प्रापयन्त्यन्यान् तद्गोचरताम् । केवलं साक्षिभावतः कर्मनाटकमीक्षमाणा अनुभवन्ति विपद्यपि प्रसन्नभावम् । नयन्त्यन्यानपि प्रशमम् । विभाव्यमत्र यशोधरमुनिचरित्रनिर्वर्णितं सुदत्तमुनिवृत्तम् । तथाहि तेन मुनिना श्वापदकुक्कुरा राजा च प्रतिबोधिताः स्वेन लोकोत्तरेण प्रशान्तगम्भीराशयेनेति ।
गभीरता हि रक्षति मृदुभावम् । ततश्च सुकराऽकार्यनिवृत्तिः, सुलभोऽहङ्कारनिकार, असम्भवी विपदाद्यापादितचित्तक्षोभा, सञ्जायते यत्किञ्चिदपि निबन्धनं तत्त्वविचार परिपोषकम्, विलयमेति कषायविषयानुरागपरिणतिः ।
अपि च श्रमणाः सावद्ययोगविरताः । अवद्यं पापम् । पापसहितमनोवाक्कायप्रवृत्तिः सावधकरणकारापणानुमोदनरूपा । गृहकुटुम्बादिपरायणानामसम्भविनी ततो मुक्तिः । मुक्तास्तु श्रमणा एव तदनुमोदनातोऽपि । विचिन्त्यमत्र कुमारपालभूपालमन्त्रिदृष्टान्तम् । तेन हि नवं हर्म्य दर्शयता सूरेः सकाशात्प्रशंसावचोऽपेक्षितम् । ज्ञापितश्चासौ तच्छिष्येन धर्मकर्मैवानुमोदयेत् सूरिरिति । कृतं तेन तदेव हर्म्यः पौषधशालात्वेन । अनुमोदितं सूरिणा यथा - शोभनाऽत्र भविष्यति धर्माराधना - इति ।
एवं पापनिवृत्तिवद् धर्मप्रवृत्तिरपि भवति मुनिविधेयेत्याह - पञ्चविधाचारज्ञाः ज्ञानाचार-दर्शनाचार-चारित्राचार-तपआचारवीर्याचार-रूपाचारपञ्चकस्य सम्यग् ज्ञातार इत्यर्थः । ज्ञानमप्यत्र