________________
५६
पञ्चसूत्रोपनिषद्
प्रतिबन्धकविगमे ।
किञ्च सिद्धाद् निरूपमसुखसङ्गताः, स्वाधीनसुखसन्दोहसमलङ्कृतत्वात्, विषयाद्यपेक्षाविरहात्, असंयोगजत्वान्नित्यत्वात्सहजत्वाच्च तत्सुखस्य । भावनीयं यथा - अहोऽस्माकं सापेक्षं तुच्छं क्षणिकं दुःखपरिणामि सुखम् । निरपेक्षमनन्तं परमं चाहो सिद्धसौख्यम् । अस्तु तदधिगमाय सिद्धशरणम् । ज्ञातमत्रकरकण्डूराजा, यः दुष्टदुर्बलत्वलक्षणं बलीवर्दस्यावस्थाद्वयं दृष्टवा स्वसौख्यानित्यत्वमवगम्य प्रवव्राज सिद्धसुखलिप्सया ।
इष्टसिद्धिर्हि प्रवृत्तेः प्रयोजनम्, इष्टं च जीवस्यैकान्तसौख्यम् । तच्च सिद्धावस्थामात्रप्राप्यम् । एतद्विचार्योद्यन्तव्यं तदवस्थाधिगमार्थम् । सिद्धा च सा सिद्धानाम् अत एते सर्वथा कृतकृत्याः, सिद्धप्रयोजनत्वात् । मोक्षलक्षण श्रेष्ठतत्त्वभूताः सिद्धाः । द्विविधं हि जगत् - जडं चेतनं च । तत्र जडं न कदापि शश्वच्छुद्धस्वभावमेति । चेतनं तूपयाति नित्यशुद्धसत्त्वम् । तत्रापि सिद्धजीवा अपरेभ्यः श्रेष्ठाः, कर्मकलङ्कविमुक्तत्वात् । नवतत्त्वेष्वप्यन्तिमं मोक्षतत्त्वम्, तच्च सिद्धावस्थास्वरूपम्, नातः परं किमपि साध्यमवशिष्यते । अतः परन्तत्त्वमिदं शरणीकार्यम् ।
सूत्र : तहा पसंतगंभीरासया, सावज्जजोगविरया पंचविहायारजाणगा, परोवयारनिरया, पउमाइनिदंसणा, झाणज्झयणसंगया, विसुज्झमाणभावा साहू सरणं ।।
तृतीयं मेऽस्तु साधुशरणम् । ते च प्रशान्तगम्भीराशयाः, क्षमादिगुणगणोपेतत्वात् । अत एव क्षमाश्रमणाभिधानेनोच्यन्त