________________
५५
पञ्चसूत्रोपनिषद् न शरीरनिर्मित्यादिका विडम्बना, न जराऽऽपादितं जर्जरत्वम्, न मृत्युप्रयुक्तः सर्वविनाशः । आस्तामन्यत्, जन्मकदर्थनामुक्तत्यमेव परमः सिद्धगुणः, यत उक्तम् - ..
जरामरणदौर्गत्य-व्याधयस्तावदासताम् । मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् । इति
बालोऽपि राजपुत्रोऽतिमुक्तः श्रीवीरवचसोऽवगम्य जन्ममरणावर्त संसारम्, चरणाचरणेन कर्मक्षयपूर्वकं सिद्धभावाधिगतेस्तदंभावं च जग्राह चारित्रम् । जगाम मुक्तिम् । प्राप्तवान् सिद्धताम् ।
ननु सिद्धानां जन्माभावोऽपि कुत इति चेत् ? यत एतेऽपेतकर्मकलङ्काः, कर्मकलङ्करहितत्वादिति भावः । अत एवैते स्फटिकवदत्यन्तं निर्मलाः । पर्यवसितमाह - प्रणष्टव्याबाधाः, सर्वपीडाप्रभृत्यात्यन्तिकविनाशयोगात् । एतदपि सर्वोपाधिशून्यत्वात् । तथा हि - (१) शरीरकर्मादिविरहेण यशोऽपयशइष्टानिष्टादिप्रयुक्तवैषम्यविगमात् (२)
अनन्तज्ञानसुखादिस्वस्वरूपाविर्भावात् (३) रागादिविभावविगमाच्च सिद्धानां सर्वव्याबाधानां प्रकर्षतः प्रनाशः प्रत्येयः |
एत एव विशेष्यन्ते - केवलवरज्ञानदर्शनाः सर्वज्ञाः सर्वदर्शिन श्चेत्यर्थः । एतदपि स्वभावाविर्भावात्, तत्स्वभावत्वादात्मनः, न ह्यतोऽन्यथाऽस्य चेतनत्वोपपत्तिरिति भावनीयम् । ज्ञस्वभावो हि चेतनः । प्रवर्त्तत एतत्स्वभावो ज्ञेयमात्रे । ज्ञेयरूपाश्च त्रैकालिकाः सर्वभावाः । ज्ञायन्त एवैत आवरणात्मक